संयमसाधनीकृतशरीरपात्रः क्रमेण निश्चलनिरुद्धपंचेन्द्रियद्वारतया समुपरतकायवाङ्मनोव्यापारो
भूत्वा चिद्वृत्तेः परद्रव्यचंङ्क्र मणनिमित्तमत्यन्तमात्मना सममन्योन्यसंवलनादेकीभूतमपि
स्वभावभेदात्परत्वेन निश्चित्यात्मनैव कुशलो मल्ल इव सुनिर्भरं निष्पीडय निष्पीडय
कषायचक्रमक्रमेण जीवं त्याजयति, स खलु सकलपरद्रव्यशून्योऽपि विशुद्धदृशिज्ञप्तिमात्र-
स्वभावभूतावस्थापितात्मतत्त्वोपजातनित्यनिश्चलवृत्तितया साक्षात्संयत एव स्यात् । तस्यैव
चागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वयौगपद्यात्मज्ञानयौगपद्यं सिद्धयति ।।२४०।।
श्रद्धानसंयतत्वानां त्रयाणां यत्सविकल्पं यौगपद्यं तथा निर्विकल्पात्मज्ञानं चेति द्वयोः संभवं दर्शयति —
पंचसमिदो व्यवहारेण पञ्चसमितिभिः समितः संवृतः पञ्चसमितः, निश्चयेन तु स्वस्वरूपे सम्यगितो
गतः परिणतः समितः । तिगुत्तो व्यवहारेण मनोवचनकायनिरोधत्रयेण गुप्तः त्रिगुप्तः, निश्चयेन स्वस्वरूपे
गुप्तः परिणतः । पंचेंदियसंवुडो व्यवहारेण पञ्चेन्द्रियविषयव्यावृत्त्या संवृतः पञ्चेन्द्रियसंवृतः, निश्चयेन
वातीन्द्रियसुखस्वादरतः । जिदकसाओ व्यवहारेण क्रोधादिकषायजयेन जितकषायः, निश्चयेन
चाकषायात्मभावनारतः । दंसणणाणसमग्गो अत्र दर्शनशब्देन निजशुद्धात्मश्रद्धानरूपं सम्यग्दर्शनं ग्राह्यम्,
ज्ञानशब्देन तु स्वसंवेदनज्ञानमिति; ताभ्यां समग्रो दर्शनज्ञानसमग्रः । समणो सो संजदो भणिदो स
एवंगुणविशिष्टः श्रमण संयत इति भणितः । अत एतदायातं – व्यवहारेण यद्बहिर्विषये व्याख्यानं कृतं
तेन सविकल्पं सम्यग्दर्शनज्ञानचारित्रत्रययौगपद्यं ग्राह्यम्; अभ्यन्तरव्याख्यानेन तु निर्विकल्पात्मज्ञानं
ग्राह्यमिति सविकल्पयौगपद्यं निर्विकल्पात्मज्ञानं च घटत इति ।।२४०।। अथागमज्ञानतत्त्वार्थश्रद्धान-
संयतत्वलक्षणेन विकल्पत्रययौगपद्येन तथा निर्विकल्पात्मज्ञानेन च युक्तो योऽसौ संयतस्तस्य किं
लक्षणमित्युपदिशति । इत्युपदिशति कोऽर्थः इति पृष्टे प्रत्युत्तरं ददाति । एवं प्रश्नोत्तरपातनिकाप्रस्तावे
१. मर्दन कर करके = दबा दबाके, कचर कचरके, दमन करके ।
२. आत्मतत्त्वका स्वभाव विशुद्धदर्शनज्ञानमात्र है ।
कहानजैनशास्त्रमाला ]
चरणानुयोगसूचक चूलिका
४४७
और अनुभव करता हुआ आत्मामें ही नित्यनिश्चल वृत्तिको इच्छता हुआ, संयमके साधनरूप
बनाये हुए शरीरपात्रको पाँच समितियोंसे अंकुशित प्रवृत्ति द्वारा प्रवर्तित करता हुआ, क्रमशः
पंचेन्द्रियोंके निश्चल निरोध द्वारा जिसके काय – वचन – मनका व्यापार विरामको प्राप्त हुआ है ऐसा
होकर, चिद्वृत्तिके लिये परद्रव्यमें भ्रमणका निमित्त जो कषायसमूह वह आत्माके साथ अन्योन्य
मिलनके कारण अत्यन्त एकरूप हो जाने पर भी स्वभावभेदके कारण उसे पररूपसे निश्चित
करके आत्मासे ही कुशल मल्लकी भाँति अत्यन्त १मर्दन कर करके अक्रमसे उसे मार डालता
है, वह पुरुष वास्तवमें, सकल परद्रव्यसे शून्य होने पर भी २विशुद्ध दर्शनज्ञानमात्र स्वभावरूपसे
रहनेवाले आत्मतत्त्व (-स्वद्रव्य) में नित्यनिश्चल परिणति उत्पन्न होनेसे, साक्षात् संयत ही है ।
और उसे ही आगमज्ञान – तत्त्वार्थश्रद्धान – संयतत्त्वके युगपत्पनेका तथा आत्मज्ञानका युगपत्पना
सिद्ध होता है ।।२४०।।