यस्तु ज्ञानात्मानमात्मानमेकमग्रं भावयति, स न ज्ञेयभूतं द्रव्यमन्यदासीदति । तदनासाद्य च ज्ञानात्मात्मज्ञानादभ्रष्टः स्वयमेव ज्ञानीभूतस्तिष्ठन्न मुह्यति, न रज्यति, न द्वेष्टि; भवतीत्युपदिशति — अट्ठेसु जो ण मुज्झदि ण हि रज्जदि णेव दोसमुवयादि अर्थेषु बहिःपदार्थेषु यो न मुह्यति, न रज्यति, हि स्फु टं, नैव द्वेषमुपयाति, जदि यदि चेत्, सो समणो स श्रमणः णियदं निश्चितं खवेदि विविहाणि कम्माणि क्षपयति कर्माणि विविधानि इति । अथ विशेषः – योऽसौ दृष्टश्रुतानुभूतभोगाकाङ्क्षा- रूपाद्यपध्यानत्यागेन निजस्वरूपं भावयति, तस्य चित्तं बहिःपदार्थेषु न गच्छति, ततश्च बहिःपदार्थ- चिन्ताभावान्निर्विकारचिच्चमत्कारमात्राच्च्युतो न भवति । तदच्यवनेन च रागाद्यभावाद्विविधकर्माणि विनाशयतीति । ततो मोक्षार्थिना निश्चलचित्तेन निजात्मनि भावना कर्तव्येति । इत्थं वीतरागचारित्र- व्याख्यानं श्रुत्वा केचन वदन्ति — सयोगिकेवलिनामप्येकदेशेन चारित्रं, परिपूर्णचारित्रं पुनरयोगिचरम- समये भविष्यति, तेन कारणेनेदानीमस्माकं सम्यक्त्वभावनया भेदज्ञानभावनया च पूर्यते, चारित्रं पश्चाद्भविष्यतीति । नैवं वक्तव्यम् । अभेदनयेन ध्यानमेव चारित्रं, तच्च ध्यानं केवलिनामुपचारेणोक्तं , चारित्रमप्युपचारेणेति । यत्पुनः समस्तरागादिविकल्पजालरहितं शुद्धात्मानुभूतिलक्षणं सम्यग्दर्शनज्ञान-
अब एकाग्रता वह मोक्षमार्ग है ऐसा (आचार्य महाराज) निश्चित करते हुए (मोक्षमार्ग – प्रज्ञापनका) उपसंहार करते हैं : —
अन्वयार्थ : — [यदि यः श्रमणः ] यदि श्रमण [अर्थेषु ] पदार्थोंमें [न मुह्यति ] मोह नहीं करता, [न हि रज्यति ] राग नहीं करता, [न एव द्वेषम् उपयाति ] और न द्वेषको प्राप्त होता है [सः ] तो वह [नियतं ] नियमसे (निश्चित) [विविधानि कर्माणि ] विविध कर्मोंको [क्षपयति ] खपाता है ।।२४३।।
टीका : — जो ज्ञानात्मक आत्मारूप एक अग्र (-विषय) को भाता है वह ज्ञेयभूत अन्य द्रव्यका आश्रय नहीं करता; और उसका आश्रय नहीं करके ज्ञानात्मक आत्माके ज्ञानसे अभ्रष्ट ऐसा
तो नियमथी मुनिराज ए विधविध कर्मो क्षय करे. २४४.