Pravachansar (Hindi). Gatha: 257.

< Previous Page   Next Page >


Page 469 of 513
PDF/HTML Page 502 of 546

 

कहानजैनशास्त्रमाला ]
चरणानुयोगसूचक चूलिका
४६९
अथ कारणवैपरीत्यफलवैपरीत्ये एव व्याख्याति
अविदिदपरमत्थेसु य विसयकसायाधिगेसु पुरिसेसु
जुट्ठं कदं व दत्तं फलदि कुदेवेसु मणुवेसु ।।२५७।।
अविदितपरमार्थेषु च विषयकषायाधिकेषु पुरुषेषु
जुष्टं कृतं वा दत्तं फलति कुदेवेषु मनुजेषु ।।२५७।।

यानि हि छद्मस्थव्यवस्थापितवस्तूनि कारणवैपरीत्यं; ते खलु शुद्धात्मपरिज्ञानशून्य- तयानवाप्तशुद्धात्मवृत्तितया चाविदितपरमार्था विषयकषायाधिकाः पुरुषाः तेषु शुभोपयोगा- त्मकानां जुष्टोपकृतदत्तानां या केवलपुण्यापसदप्राप्तिः फलवैपरीत्यं; तत्कुदेवमनुजत्वम् ।।२५७।। णियमज्झयणझाणदाणरदो व्रतनियमाध्ययनध्यानदानरतः केषु विषये यानि व्रतादीनि छदुमत्थविहिदवत्थुसु छद्मस्थविहितवस्तुषु अल्पज्ञानिपुरुषव्यवस्थापितपात्रभूतवस्तुषु इत्थंभूतः पुरुषः कं न लभते अपुणब्भावं अपुनर्भवशब्दवाच्यं मोक्षम् तर्हि किं लभते भावं सादप्पगं लहदि भावं सातात्मकं लभते भावशब्देन सुदेवमनुष्यत्वपर्यायो ग्राह्यः स च कथंभूतः सातात्मकः सद्वेद्योदयरूप इति तथाहि ये केचन निश्चयव्यवहारमोक्षमार्गं न जानन्ति, पुण्यमेव मुक्तिकारणं भणन्ति, ते छद्मस्थशब्देन गृह्यन्ते, न च गणधरदेवादयः तैः छद्मस्थैरज्ञानिभिः शुद्धात्मोपदेशशून्यैर्ये दीक्षितास्तानि छद्मस्थविहितवस्तूनि भण्यन्ते तत्पात्रसंसर्गेण यद्व्रतनियमाध्ययनदानादिकं करोति तदपि शुद्धात्मभावनानुकूलं न भवति, ततः कारणान्मोक्षं न लभते सुदेवमनुष्यत्वं लभत इत्यर्थः ।।२५६।। अथ सम्यक्त्वव्रतरहितपात्रेषु भक्तानां कुदेवमनुजत्वं भवतीति प्रतिपादयतिफलदि फलति केषु कुदेवेसु मणुवेसु कुत्सितदेवेषु

अब (इस गाथामें भी) कारणविपरीतता और फलविपरीतता ही बतलाते हैं :

अन्वयार्थ :[अविदितपरमार्थेषु ] जिन्होंने परमार्थको नहीं जाना है, [च ] और [विषयकषायाधिकेषु ] जो विषयकषायमें अधिक हैं, [पुरुषेषु ] ऐसे पुरुषोंके प्रति [जुष्टं कृतं वा दत्तं ] सेवा, उपकार या दान [कुदेवेषु मनुजेषु ] कुदेवरूपमें और कुमनुष्यरूपमें [फलति ] फलता है ।।२५७।।

टीका :जो छद्मस्थस्थापित वस्तुयें हैं वे कारणविपरीतता हैं; वे (विपरीत कारण) वास्तवमें (१) शुद्धात्मज्ञानसे शून्यताके कारण, ‘परमार्थके अजान’ और (२) शुद्धात्मपरिणतिको प्राप्त न करनेसे ‘विषयकषायमें अधिक’ ऐसे पुरुष हैं उनके प्रति शुभोपयोगात्मक जीवोंकोसेवा, उपकार या दान करनेवाले जीवोंकोजो केवल

परमार्थथी अनभिज्ञ, विषयकषायअधिक जनो परे
उपकार
सेवादान सर्व कुदेवमनुजपणे फळे. २५७.