उपरतपापत्वेन, सर्वधर्मिमध्यस्थत्वेन, गुणग्रामोपसेवित्वेन च सम्यग्दर्शनज्ञानचारित्र- यौगपद्यपरिणतिनिर्वृत्तैकाग्ा्रयात्मकसुमार्गभागी, स श्रमणः स्वयं परस्य मोक्षपुण्यायतनत्वाद- विपरीतफलकारणं कारणमविपरीतं प्रत्येयम् ।।२५९।। शास्त्रेषु, किह ते तप्पडिबद्धा पुरिसा णित्थारगा होंति कथं ते तत्प्रतिबद्धा विषयकषायप्रतिबद्धाः पुरुषा निस्तारकाः संसारोत्तारका दातॄणाम्, न कथमपीति । एतदुक्तं भवति — विषयकषायास्तावत्पाप- स्वरूपास्तद्वन्तः पुरुषा अपि पापा एव, ते च स्वकीयभक्तानां दातॄणां पुण्यविनाशका एवेति ।।२५८।। अथ पात्रभूततपोधनलक्षणं कथयति — उपरतपापत्वेन, सर्वधार्मिकसमदर्शित्वेन, गुणग्रामसेवकत्वेन च स्वस्य मोक्षकारणत्वात्परेषां पुण्यकारणत्वाच्चेत्थंभूतगुणयुक्तः पुरुषः सम्यग्दर्शनज्ञानचारित्रैकाग्रयलक्षण- निश्चयमोक्षमार्गस्य भाजनं भवतीति ।।२५९।। अथ तेषामेव पात्रभूततपोधनानां प्रकारान्तरेण लक्षणमुपलक्षयति — शुद्धोपयोगशुभोपयोगपरिणतपुरुषाः पात्रं भवन्तीति । तद्यथा — निर्विकल्प- समाधिबलेन शुभाशुभोपयोगद्वयरहितकाले कदाचिद्वीतरागचारित्रलक्षणशुद्धोपयोगयुक्ताः, कदाचित्पुन- र्मोहद्वेषाशुभरागरहितकाले सरागचारित्रलक्षणशुभोपयोगयुक्ताः सन्तो भव्यलोकं निस्तारयन्ति, तेषु च
अन्वयार्थ : — [उपरतपापः] जिसके पाप रुक गया है, [सर्वेषु धार्मिकेषु समभावः ] जो सभी धार्मिकोंके प्रति समभाववान् है और [गुणसमितितोपसेवी ] जो गुणसमुदायका सेवन करनेवाला है, [सः पुरुषः ] वह पुरुष [सुमार्गस्य ] सुमार्गका [भागी भवति ] भागी होता है । (अर्थात् सुमार्गवान् है) ।।२५९।।
टीका : — पापके रुक जानेसे सर्वधर्मियोंके प्रति स्वयं मध्यस्थ होनेसे और गुणसमूहका सेवन करनेसे जो श्रमण सम्यग्दर्शन – ज्ञान – चारित्रके युगपत्पनेरूप परिणतिसे रचित एकाग्रतास्वरूप सुमार्गका भागी (सुमार्गशाली – सुमार्गका भाजन) है वह निजको और परको मोक्षका और पुण्यका आयतन (स्थान) है इसलिये वह (श्रमण) अविपरीत फलका कारण ऐसा ‘अविपरीत कारण’ है, ऐसी प्रतीति करनी चाहिये ।।२५९।।