यथोक्तलक्षणा एव श्रमणा मोहद्वेषाप्रशस्तरागोच्छेदादशुभोपयोगवियुक्ताः सन्तः, सकलकषायोदयविच्छेदात् कदाचित् शुद्धोपयुक्ताः प्रशस्तरागविपाकात्कदाचिच्छुभोपयुक्ताः, स्वयं मोक्षायतनत्वेन लोकं निस्तारयन्ति; तद्भक्तिभावप्रवृत्तप्रशस्तभावा भवन्ति परे च पुण्यभाजः ।।२६०।। भक्तो भव्यवरपुण्डरीकः प्रशस्तफलभूतं स्वर्गं लभते, परंपरया मोक्षं चेति भावार्थः ।।२६०।। एवं पात्रापात्रपरीक्षाकथनमुख्यतया गाथाषटकेन तृतीयस्थलं गतम् । इत ऊर्ध्वं आचारकथितक्रमेण पूर्वं कथितमपि पुनरपि दृढीकरणार्थं विशेषेण तपोधनसमाचारं कथयति । अथाभ्यागततपोधनस्य दिनत्रयपर्यन्तं सामान्यप्रतिपत्तिं, तदनन्तरं विशेषप्रतिपत्तिं दर्शयति — वट्टदु वर्तताम् । स कः । अत्रत्य
अब, अविपरीत फलका कारण, ऐसा जो ‘अविपरीत कारण’ है उसे विशेष समझाते हैं : —
अन्वयार्थ : — [अशुभोपयोगरहिताः ] जो अशुभोपयोगरहित वर्तते हुए [शुद्धोपयुक्ताः ] शुद्धोपयुक्त [वा ] अथवा [शुभोपयुक्ताः ] शुभोपयुक्त होते हैं, वे (श्रमण) [लोकं निस्तारयन्ति ] लोगोंको तार देते हैं; (और) [तेषु भक्तः ] उनके प्रति भक्तिवान जीव [प्रशस्तं ] प्रशस्त (-पुण्य) को [लभते ] प्राप्त करता है ।।२६०।।
टीका : — यथोक्त लक्षणवाले श्रमण ही — जो कि मोह, द्वेष और अप्रशस्त रागके उच्छेदसे अशुभोपयोगरहित वर्तते हुए, समस्त कषायोदयके विच्छेदसे कदाचित् शुद्धोपयुक्त (शुद्धोपयोगमें युक्त) और प्रशस्त रागके विपाकके कदाचित् शुभोपयुक्त होते हैं वे — स्वयं मोक्षायतन (मोक्षके स्थान) होनेसे लोकको तार देते हैं; और उनके प्रति भक्तिभावसे जिनके प्रशस्त भाव प्रवर्तता है ऐसे पर जीव पुण्यके भागी (पुण्यशाली) होते हैं ।।२६०।।