श्रमणानां स्वतोऽधिकगुणानामभ्युत्थानग्रहणोपासनपोषणसत्कारांजलिकरणप्रणाम- प्रवृत्तयो न प्रतिषिद्धाः ।।२६२।। त्रयानन्तरं गुणाद्गुणविशेषात् विसेसिदव्वो तेन आचार्येण स तपोधनो रत्नत्रयभावनावृद्धिकारण- क्रियाभिर्विशेषितव्यः त्ति उवदेसो इत्युपदेशः सर्वज्ञगणधरदेवादीनामिति ।।२६१।। अथ तमेव विशेषं कथयति । भणिदं भणितं कथितं इह अस्मिन्ग्रन्थे । केषां संबन्धी । गुणाधिगाणं हि गुणाधिकतपोधनानां हि स्फु टम् । किं भणितम् । अब्भुट्ठाणं गहणं उवासणं पोसणं च सक्कारं अंजलिकरणं पणमं अभ्युत्थान- ग्रहणोपासनपोषणसत्काराञ्जलिकरणप्रणामादिकम् । अभिमुखगमनमभ्युत्थानम्, ग्रहणं स्वीकारः, उपासनं शुद्धात्मभावनासहकारिकारणनिमित्तं सेवा, तदर्थमेवाशनशयनादिचिन्ता पोषणम्, भेदाभेद- रत्नत्रयगुणप्रकाशनं सत्कारः, बद्धाञ्जलिनमस्कारोऽञ्जलिकरणम्, नमोऽस्त्वितिवचनव्यापारः प्रणाम इति ।।२६२।। अथाभ्यागतानां तदेवाभ्युत्थानादिकं प्रकारान्तरेण निर्दिशति — अब्भुट्ठेया यद्यपि चारित्रगुणेनाधिका न भवन्ति, तपसा वा, तथापि सम्यग्ज्ञानगुणेन ज्येष्ठत्वाच्छ्रुतविनयार्थमभ्युत्थेयाः अभ्युत्थानयोग्या भवन्ति । के ते । समणा श्रमणा निर्ग्रन्थाचार्याः । किंविशिष्टाः । सुत्तत्थविसारदा विशुद्धज्ञानदर्शनस्वभावपरमात्मतत्त्वप्रभृत्यनेकान्तात्मकपदार्थेषु वीतरागसर्वज्ञप्रणीतमार्गेण प्रमाणनय- निक्षेपैर्विचारचतुरचेतसः सूत्रार्थविशारदाः । न केवलमभ्युत्थेयाः, उवासेया परमचिज्जोतिःपरमात्म-
अन्वयार्थ : — [गुणाधिकानां हि ] गुणोंमें अधिक (श्रमणों) के प्रति [अभ्युत्थानं ] अभ्युत्थान, [ग्रहणं ] ग्रहण (आदरसे स्वीकार), [उपासनं ] उपासन (सेवा), [पोषणं ] पोषण (उनके अशन, शयनादिकी चिन्ता), [सत्कारः ] सत्कार (गुणोंकी प्रशंसा), [अञ्जलिकरणं ] अञ्जलि करना (विनयपूर्वक हाथ जोड़ना) [च ] और [प्रणामः ] प्रणाम करना [इह ] यहाँ [भणितम् ] कहा है ।।२६२।।
टीका : — श्रमणोंको अपनेसे अधिक गुणवान (श्रमण) के प्रति अभ्युत्थान, ग्रहण, उपासन, पोषण, सत्कार, अंजलिकरण और प्रणामरूप प्रवृत्तियाँ निषिद्ध नहीं हैं ।।२६२।।
अंजलिकरण, पोषण, ग्रहण, सेवन अहीं उपदिष्ट छे.२६२.