सूत्रार्थवैशारद्यप्रवर्तितसंयमतपःस्वतत्त्वज्ञानानामेव श्रमणानामभ्युत्थानादिकाः प्रवृत्तयो- ऽप्रतिषिद्धा, इतरेषां तु श्रमणाभासानां ताः प्रतिषिद्धा एव ।।२६३।। पदार्थपरिज्ञानार्थमुपासेयाः परमभक्त्या सेवनीयाः । संजमतवणाणड्ढा पणिवदणीया हि संयमतपोज्ञानाढयाः प्रणिपतनीयाः हि स्फु टं । बहिरङ्गेन्द्रियसंयमप्राणसंयमबलेनाभ्यन्तरे स्वशुद्धात्मनि यत्नपरत्वं संयमः । बहिरङ्गानशनादितपोबलेनाभ्यन्तरे परद्रव्येच्छानिरोधेन च स्वस्वरूपे प्रतपनं विजयनं तपः । बहिरङ्ग- परमागमाभ्यासेनाभ्यन्तरे स्वसंवेदनज्ञानं सम्यग्ज्ञानम् । एवमुक्तलक्षणैः संयमतपोज्ञानैराढयाः परिपूर्णा यथासंभवं प्रतिवन्दनीयाः । कैः । समणेहिं श्रमणैरिति । अत्रेदं तात्पर्यम् — ये बहुश्रुता अपि चारित्राधिका न भवन्ति, तेऽपि परमागमाभ्यासनिमित्तं यथायोग्यं वन्दनीयाः । द्वितीयं च कारणम् — ते सम्यक्त्वे ज्ञाने च पूर्वमेव दृढतराः, अस्य तु नवतरतपोधनस्य सम्यक्त्वे ज्ञाने चापि दाढर्यं नास्ति । तर्हि स्तोकचारित्राणां किमर्थमागमे वन्दनादिनिषेधः कृत इति चेत् । अतिप्रसंगनिषेधार्थमिति ।।२६३।।
अन्वयार्थ : — [श्रमणैः हि ] श्रमणोंके द्वारा [सूत्रार्थविशारदाः ] सूत्रार्थविशारद (सूत्रोंके और सूत्रकथित पदार्थोंके ज्ञानमें निपुण) तथा [संयमतपोज्ञानाढयाः ] संयमतपज्ञानाढय, (संयम, तप और आत्मज्ञानमें समृद्ध) [श्रमणः ] श्रमण [अभ्युत्थेयाः उपासेयाः प्रणिपतनीयाः ] अभ्युत्थान, उपासना और प्रणाम करने योग्य हैं ।।२६३।।
टीका : — जिनके सूत्रोंमें और पदार्थोंमें विशारदपनेके द्वारा संयम, तप और स्वतत्वका ज्ञान प्रवर्तता है उन श्रमणोंके प्रति ही अभ्युत्थानादिक प्रवृत्तियाँ अनिषिद्ध हैं, परन्तु उसके अतिरिक्त अन्य श्रमणाभासोंके प्रति वे प्रवृत्तियाँ निषिद्ध ही हैं ।।२६३।।