यदायमात्मा मनागपि धर्मपरिणतिमनासादयन्नशुभोपयोगपरिणतिमालम्बते तदा कुमनुष्यतिर्यङ्नारकभ्रमणरूपं दुःखसहस्रबन्धमनुभवति । ततश्चारित्रलवस्याप्यभावादत्यन्तहेय एवायमशुभोपयोग इति ।।१२।।
एवमयमपास्तसमस्तशुभाशुभोपयोगवृत्तिः शुद्धोपयोगवृत्तिमात्मसात्कुर्वाणः शुद्धोपयोगा- धिकारमारभते । तत्र शुद्धोपयोगफलमात्मनः प्रोत्साहनार्थमभिष्टौति — पूर्वमनाकुलत्वलक्षणपारमार्थिकसुखविपरीतमाकुलत्वोत्पादकं स्वर्गसुखं लभते । पश्चात् परम- समाधिसामग्रीसद्भावे मोक्षं च लभते इति सूत्रार्थः ।।११।। अथ चारित्रपरिणामासंभवादत्यन्त- हेयस्याशुभोपयोगस्य फलं दर्शयति ---असुहोदएण अशुभोदयेन आदा आत्मा कुणरो तिरियो भवीय णेरइयो कुनरस्तिर्यङ्नारको भूत्वा । किं करोति । दुक्खसहस्सेहिं सदा अभिद्दुदो भमदि अच्चंतं दुःखसहस्रैः सदा सर्वकालमभिद्रुतः कदर्थितः पीडितः सन् संसारे अत्यन्तं भ्रमतीति । तथाहि ---निर्विकारशुद्धात्म- तत्त्वरुचिरूपनिश्चयसम्यक्त्वस्य तत्रैव शुद्धात्मन्यविक्षिप्तचित्तवृत्तिरूपनिश्चयचारित्रस्य च विलक्षणेन विपरीताभिनिवेशजनकेन द्रष्टश्रुतानुभूतपञ्चेन्द्रियविषयाभिलाषतीव्रसंक्लेशरूपेण चाशुभोपयोगेन यदुपार्जितं पापकर्म तदुदयेनायमात्मा सहजशुद्धात्मानन्दैकलक्षणपारमार्थिकसुखविपरीतेन दुःखेन दुःखितः सन् स्वस्वभावभावनाच्युतो भूत्वा संसारेऽत्यन्तं भ्रमतीति तात्पर्यार्थः । एवमुपयोगत्रय- फलकथनरूपेण चतुर्थस्थले गाथाद्वयं गतम् ।।१२।। अथ शुभाशुभोपयोगद्वयं निश्चयनयेन हेयं ज्ञात्वा शुद्धोपयोगाधिकारं प्रारभमाणः, शुद्धात्मभावनामात्मसात्कुर्वाणः सन् जीवस्य प्रोत्साहनार्थं शुद्धो- पयोगफलं प्रकाशयति । अथवा द्वितीयपातनीका --यद्यपि शुद्धोपयोगफलमग्रे ज्ञानं सुखं च संक्षेपेण
अन्वयार्थ : — [अशुभोदयेन ] अशुभ उदयसे [आत्मा ] आत्मा [कुनरः ] कुमनुष्य [तिर्यग् ] तिर्यंच [नैरयिकः ] और नारकी [भूत्वा ] होकर [दुःखसहस्रैः ] हजारों दुःखोंसे [सदा अभिद्रुतः ] सदा पीड़ित होता हुआ [अत्यंतं भ्रमति ] (संसारमें) अत्यन्त भ्रमण करता है ।।१२।।
टीका : — जब यह आत्मा किंचित् मात्र भी धर्मपरिणतिको प्राप्त न करता हुआ अशुभोपयोग परिणतिका अवलम्बन करता है, तब वह कुमनुष्य, तिर्यंच और नारकीके रूपमें परिभ्रमण करता हुआ (तद्रूप) हजारों दुःखोंके बन्धनका अनुभव करता है; इसलिये चारित्रके लेशमात्रका भी अभाव होनेसे यह अशुभोपयोग अत्यन्त हेय ही है ।।१२।।
इसप्रकार यह भाव (भगवान कुन्दकुन्दाचार्य देव) समस्त शुभाशुभोपयोगवृत्तिको (शुभउपयोगरूप और अशुभ उपयोगरूप परिणतिको) ✽अपास्त कर (हेय मानकर, तिरस्कार ✽ अपास्त करना = तिरस्कार करना; हेय मानना; दूर करना; छोड देना।