प्रवाहावस्थायित्वेन सकलार्थसार्थात्मकस्य प्रवचनस्य सारभूतं भूतार्थस्वसंवेद्यदिव्यज्ञानानन्द-
स्वभावमननुभूतपूर्वं भगवन्तमात्मानमवाप्नोति ।।२७५।।
इति तत्त्वदीपिकायां श्रीमदमृतचन्द्रसूरिविरचितायां प्रवचनसारवृत्तौ चरणानुयोगसूचिका चूलिका नाम तृतीयः श्रुतस्कन्धः समाप्तः ।।३।।
ज्ञेयभूतपरमात्मादिपदार्थानां तत्साध्यस्य निर्विकारस्वसंवेदनज्ञानस्य च, तथैव तत्त्वार्थश्रद्धानलक्षण- सम्यग्दर्शनस्य तद्विषयभूतानेकान्तात्मकपरमात्मादिद्रव्याणां तेन व्यवहारसम्यक्त्वेन साध्यस्य निज- शुद्धात्मरुचिरूपनिश्चयसम्यक्त्वस्य च, तथैव च व्रतसमितिगु प्त्याद्यनुष्ठानरूपस्य सरागचारित्रस्य तेनैव साध्यस्य स्वशुद्धात्मनिश्चलानुभूतिरूपस्य वीतरागचारित्रस्य च प्रतिपादकत्वात्प्रवचनसाराभिधेयम् । कथंभूतः सः शिष्यजनः । सागारणगारचरियया जुत्तो सागारानागारचर्यया युक्तः । आभ्यन्तररत्न- त्रयानुष्ठानमुपादेयं कृत्वा बहिरङ्गरत्नत्रयानुष्ठानं सागारचर्या श्रावकचर्या । बहिरङ्गरत्नत्रयाधारेणाभ्यन्तर- रत्नत्रयानुष्ठानमनागारचर्या प्रमत्तसंयतादितपोधनचर्येत्यर्थः ।।२७५।। इति गाथापञ्चकेन पञ्चरत्नसंज्ञं पञ्चमस्थलं व्याख्यातम् । एवं ‘णिच्छिदसुत्तत्थपदो’ इत्यादि द्वात्रिंशद्गाथाभिः स्थलपञ्चकेन शुभोप- योगाभिधानश्चतुर्थान्तराधिकारः समाप्तः ।।
इति श्रीजयसेनाचार्यकृतायां तात्पर्यवृत्तौ पूर्वोक्तक्रमेण ‘एवं पणमिय सिद्धे’ इत्याद्येक- विंशतिगाथाभिरुत्सर्गाधिकारः । तदनन्तरं ‘ण हि णिरवेक्खो चागो’ इत्यादि त्रिंशद्गाथाभिरपवादाधिकारः । ततः परं ‘एयग्गगदो समणो’ इत्यादिचतुर्दशगाथाभिः श्रामण्यापरनामा मोक्षमार्गाधिकारः । ततोऽप्यनन्तरं ‘णिच्छिदसुत्तत्थपदो’ इत्यादिद्वात्रिंशद्गाथाभिः शुभोपयोगाधिकारश्चेत्यन्तराधिकारचतुष्टयेन सप्तनवतिगाथाभिश्चरणानुयोगचूलिका नामा तृतीयो महाधिकारः समाप्तः ।।३।। उपदेशको जानता है, वह वास्तवमें, १भूतार्थस्वसंवेद्य – दिव्य ज्ञानानन्द जिसका स्वभाव है, पूर्वकालमें कभी जिसका अनुभव नहीं किया, ऐसे भगवान आत्माको प्राप्त करता है — जो कि (जो आत्मा) तीनों कालके निरवधि प्रवाहमें स्थायी होनेसे २सकल पदार्थोंके समूहात्मक प्रवचनका सारभूत है ।।२७५।।
इसप्रकार (श्रीमद् भगवत्कुन्दकुन्दाचार्यदेवप्रणीत) श्री प्रवचनसार शास्त्रकी श्रीमद्अमृतचन्द्राचार्यदेव विरचित तत्वदीपिका नामक टीकामें चरणानुयोगसूचक चूलिका नामका तृतीय श्रुतस्कंध समाप्त हुआ ।
१. भूतार्थ पारमार्थिक – (सत्यार्थ), स्वसंवेद्य और दिव्य ऐसे जो ज्ञान और आनन्द वह भगवान आत्माका
स्वभाव है । २. प्रवचन सकल पदार्थोंके समूहका प्रतिपादन करता है, इसलिये उसे सकल पदार्थोंका समूहात्मक कहा