Pravachansar (Hindi). Gatha: 18.

< Previous Page   Next Page >


Page 30 of 513
PDF/HTML Page 63 of 546

 

३०प्रवचनसार[ भगवानश्रीकुंदकुंद-
अथोत्पादादित्रयं सर्वद्रव्यसाधारणत्वेन शुद्धात्मनोऽप्यवश्यंभावीति विभावयति
उप्पादो य विणासो विज्जदि सव्वस्स अट्ठजादस्स
पज्जाएण दु केणवि अट्ठो खलु होदि सब्भूदो ।।१८।।
उत्पादश्च विनाशो विद्यते सर्वस्यार्थजातस्य
पर्यायेण तु केनाप्यर्थः खलु भवति सद्भूतः ।।१८।।

यथा हि जात्यजाम्बूनदस्यांगदपर्यायेणोत्पत्तिद्रर्ष्टा, पूर्वव्यवस्थितांगुलीयकादिपर्यायेण च विनाशः, पीततादिपर्यायेण तूभयत्राप्युत्पत्तिविनाशावनासादयतः ध्रुवत्वम्; एवमखिलद्रव्याणां शुद्धव्यञ्जनपर्यायापेक्षया सिद्धपर्यायेणोत्पादः, संसारपर्यायेण विनाशः, केवलज्ञानादिगुणाधारद्रव्यत्वेन ध्रौव्यमिति ततः स्थितं द्रव्यार्थिकनयेन नित्यत्वेऽपि पर्यायार्थिकनयेनोत्पादव्ययध्रौव्यत्रयं संभवतीति ।।१७।। अथोत्पादादित्रयं यथा सुवर्णादिमूर्तपदार्थेषु दृश्यते तथैवामूर्तेऽपि सिद्धस्वरूपे विज्ञेयं पदार्थत्वादिति निरूपयतिउप्पादो य विणासो विज्जदि सव्वस्स अट्ठजादस्स उत्पादश्च विनाशश्च विद्यते तावत्सर्वस्यार्थजातस्य पदार्थसमूहस्य केन कृत्वा पज्जाएण दु केणवि पर्यायेण तु केनापि विवक्षितेनार्थव्यञ्जनरूपेण स्वभावविभावरूपेण वा स चार्थः किंविशिष्टः अट्ठो खलु होदि सब्भूदो अर्थः खलु स्फु टं सत्ताभूतः सत्ताया अभिन्नो भवतीति तथाहिसुवर्णगोरसमृत्तिकापुरुषादिमूर्त- पदार्थेषु यथोत्पादादित्रयं लोके प्रसिद्धं तथैवामूर्तेऽपि मुक्तजीवे यद्यपि शुद्धात्मरुचिपरिच्छित्ति-

अब, उत्पाद आदि तीनों (उत्पाद, व्यय और ध्रौव्य) सर्व द्रव्योंके साधारण है इसलिये शुद्ध आत्मा (केवली भगवान और सिद्ध भगवान) के भी अवश्यम्भावी है ऐसा व्यक्त करते हैं :

अन्वयार्थ :[उत्पादः ] किसी पर्यायसे उत्पाद [विनाशः च ] और किसी पर्यायसे विनाश [सर्वस्य ] सर्व [अर्थजातस्य ] पदार्थमात्रके [विद्यते ] होता है; [केन अपि पर्यायेण तु ] और किसी पर्यायसे [अर्थः ] पदार्थ [सद्भूतः खलु भवति ] वास्तवमें ध्रुव है ।।१८।।

टीका :जैसे उत्तम स्वर्णकी बाजूबन्दरूप पर्यायसे उत्पत्ति दिखाई देती है, पूर्व अवस्थारूपसे वर्तनेवाली अँगूठी इत्यादिक पर्यायसे विनाश देखा जाता है और पीलापन इत्यादि १. अवश्यम्भावी = जरूर होनेवाला; अपरिहार्य्य

उत्पाद तेम विनाश छे सौ कोई वस्तुमात्रने,
वळी कोई पर्ययथी दरेक पदार्थ छे सद्भूत खरे
.१८.