अथातीन्द्रियत्वादेव शुद्धात्मनः शारीरं सुखदुःखं नास्तीति विभावयति —
सोक्खं वा पुण दुक्खं केवलणाणिस्स णत्थि देहगदं ।
जम्हा अदिंदियत्तं जादं तम्हा दु तं णेयं ।।२०।।
नास्ति । कथंभूतम् । देहगदं देहगतं देहाधारजिह्वेन्द्रियादिसमुत्पन्नं कवलाहारादिसुखम्, असातोदयजनितं
क्षुधादिदुःखं च । कस्मान्नास्ति । जम्हा अदिंदियत्तं जादं यस्मान्मोहादिघातिकर्माभावे पञ्चेन्द्रिय-
विषयव्यापाररहितत्वं जातम् । तम्हा दु तं णेयं तस्मादतीन्द्रियत्वाद्धेतोरतीन्द्रियमेव तज्ज्ञानं सुखं च
ज्ञेयमिति । तद्यथा — लोहपिण्डसंसर्गाभावादग्निर्यथा घनघातपिट्टनं न लभते तथायमात्मापि लोहपिण्ड-
स्थानीयेन्द्रियग्रामाभावात् सांसारिकसुखदुःखं नानुभवतीत्यर्थः । कश्चिदाह – केवलिनां भुक्तिरस्ति,
औदारिकशरीरसद्भावात् । असद्वेद्यकर्मोदयसद्भावाद्वा । अस्मदादिवत् । परिहारमाह — तद्भगवतः शरीर-
मौदारिकं न भवति किंतु परमौदारिकम् । तथा चोक्तं – ‘‘शुद्धस्फ टिकसंकाशं तेजोमूर्तिमयं वपुः । जायते
क्षीणदोषस्य सप्तधातुविवर्जितम्’’ ।। यच्चोक्तमसद्वेद्योदयसद्भावात्तत्र परिहारमाह — यथा व्रीह्यादिबीजं
जलसहकारिकारणसहितमङ्कककककुुुुुरादिकार्यं जनयति तथैवासद्वेद्यकर्म मोहनीयसहकारिकारणसहितं क्षुधादि-
कार्यमुत्पादयति । क स्मात् । ‘मोहस्स बलेण घाददे जीवं’ इति वचनात् । यदि पुनर्मोहाभावेऽपि
क्षुधादिपरीषहं जनयति तर्हि वधरोगादिपरीषहमपि जनयतु, न च तथा । तदपि कस्मात् ।
‘भुक्त्युपसर्गाभावात्’ इति वचनात् । अन्यदपि दूषणमस्ति । यदि क्षुधाबाधास्ति तर्हि
क्षुधाक्षीणशक्तेरनन्तवीर्यं नास्ति । तथैव क्षुधादुःखितस्यानन्तसुखमपि नास्ति । जिह्वेन्द्रियपरिच्छित्ति-
रूपमतिज्ञानपरिणतस्य केवलज्ञानमपि न संभवति । अथवा अन्यदपि कारणमस्ति । असद्वेद्योदयापेक्षया
सद्वेद्योदयोऽनन्तगुणोऽस्ति । ततः कारणात् शर्कराराशिमध्ये निम्बकणिकावदसद्वेद्योदयो विद्यमानोऽपि
न ज्ञायते । तथैवान्यदपि बाधकमस्ति — यथा प्रमत्तसंयतादितपोधनानां वेदोदये विद्यमानेऽपि
मन्दमोहोदयत्वादखण्डब्रह्मचारिणां स्त्रीपरीषहबाधा नास्ति, यथैव च नवग्रैवेयकाद्यहमिन्द्रदेवानां
३४प्रवचनसार[ भगवानश्रीकुंदकुंद-
भावार्थ : — आत्माको ज्ञान और सुखरूप परिणमित होनेमें इन्द्रियादिक पर निमित्तोंकी
आवश्यक ता नहीं है; क्योंकि जिसका लक्षण अर्थात् स्वरूप स्वपरप्रकाशकता है ऐसा ज्ञान और
जिसका लक्षण अनाकुलता है ऐसा सुख आत्माका स्वभाव ही है ।।१९।।
अब अतीन्द्रियताके कारण ही शुद्ध आत्माके (केवली भगवानके) शारीरिक सुख दुःख
नहीं है यह व्यक्त करते हैं : —
कँई देहगत नथी सुख के नथी दुःख केवळज्ञानीने,
जेथी अतीन्द्रियता थई ते कारणे ए जाणजे.२०.