Pravachansar (Hindi).

< Previous Page   Next Page >


Page 35 of 513
PDF/HTML Page 68 of 546

 

background image
सौख्यं वा पुनर्दुःखं केवलज्ञानिनो नास्ति देहगतम्
यस्मादतीन्द्रियत्वं जातं तस्मात्तु तज्ज्ञेयम् ।।२०।।
वेदोदये विद्यमानेऽपि मन्दमोहोदयेन स्त्रीविषयबाधा नास्ति, तथा भगवत्यसद्वेद्योदये विद्यमानेऽपि
निरवशेषमोहाभावात् क्षुधाबाधा नास्ति
यदि पुनरुच्यते भवद्भि :::::मिथ्यादृष्टयादिसयोग-
केवलिपर्यन्तास्त्रयोदशगुणस्थानवर्तिनो जीवा आहारका भवन्तीत्याहारकमार्गणायामागमे भणितमास्ते,
ततः कारणात् केवलिनामाहारोऽस्तीति
तदप्ययुक्तम् ‘‘णोकम्म -कम्महारो कवलाहारो य
लेप्पमाहारो ओजमणो वि य कमसो आहारो छव्विहो णेयो’’ ।। इति गाथाकथितक्रमेण यद्यपि
षट्प्रकार आहारो भवति तथापि नोकर्माहारापेक्षया केवलिनामाहारकत्वमवबोद्धव्यम् न च
कवलाहारापेक्षया तथाहिसूक्ष्माः सुरसाः सुगन्धा अन्यमनुजानामसंभविनः कवलाहारं विनापि
किञ्चिदूनपूर्वकोटिपर्यन्तं शरीरस्थितिहेतवः सप्तधातुरहितपरमौदारिकशरीरनोकर्माहारयोग्या लाभान्त-
रायकर्मनिरवशेषक्षयात् प्रतिक्षणं पुद्गला आस्रवन्तीति नवकेवललब्धिव्याख्यानकाले भणितं तिष्ठति
ततो ज्ञायते नोकर्माहारापेक्षया केवलिनामाहारकत्वम् अथ मतम्भवदीयकल्पनया आहारानाहारकत्वं
नोकर्माहारापेक्षया, न च कवलाहारापेक्षया चेति कथं ज्ञायते नैवम् ‘‘एकं द्वौ त्रीन् वानाहारकः’’
इति तत्त्वार्थे कथितमास्ते अस्य सूत्रस्यार्थः कथ्यतेभवान्तरगमनकाले विग्रहगतौ शरीराभावे सति
नूतनशरीरधारणार्थं त्रयाणां शरीराणां षण्णां पर्याप्तीनां योग्यपुद्गलपिण्डग्रहणं नोकर्माहार उच्यते
च विग्रहगतौ कर्माहारे विद्यमानेऽप्येकद्वित्रिसमयपर्यन्तं नास्ति ततो नोकर्माहारापेक्षयाऽऽहारा-
नाहारकत्वमागमे ज्ञायते यदि पुनः कवलाहारापेक्षया तर्हि भोजनकालं विहाय सर्वदैवानाहारक एव,
समयत्रयनियमो न घटते अथ मतम्केवलिनां कवलाहारोऽस्ति मनुष्यत्वात् वर्तमानमनुष्यवत्
तदप्ययुक्त म् तर्हि पूर्वकालपुरुषाणां सर्वज्ञत्वं नास्ति, रामरावणादिपुरुषाणां च विशेषसामर्थ्यं नास्ति
वर्तमानमनुष्यवत् न च तथा किंच छद्मस्थतपोधना अपि सप्तधातुरहितपरमौदारिकशरीराभावे ‘छट्ठो
त्ति पढमसण्णा’ इति वचनात् प्रमत्तसंयतषष्ठगुणस्थानवर्तिनो यद्यप्याहारं गृह्णन्ति तथापि ज्ञानसंयम-
ध्यानसिद्धयर्थं, न च देहममत्वार्थम्
उक्तं च‘‘कायस्थित्यर्थमाहारः कायो ज्ञानार्थमिष्यते ज्ञानं
कर्मविनाशाय तन्नाशे परमं सुखम्’’ ।। ‘‘ण बलाउसाहणट्ठं ण सरीरस्स य चयट्ठ तेजट्ठं णाणट्ठ
संजमट्ठं झाणट्ठं चेव भुंजंति ।।’’ तस्य भगवतो ज्ञानसंयमध्यानादिगुणाः स्वभावेनैव तिष्ठन्ति न
चाहारबलेन यदि पुनर्देहममत्वेनाहारं गृह्णाति तर्हि छद्मस्थेभ्योऽप्यसौ हीनः प्राप्नोति अथोच्यते
तस्यातिशयविशेषात्प्रकटा भुक्तिर्नास्ति प्रच्छन्ना विद्यते तर्हि परमौदारिकशरीरत्वाद्भुक्तिरेव
नास्त्ययमेवातिशयः किं न भवति तत्र तु प्रच्छन्नभुक्तौ मायास्थानं दैन्यवृत्तिः, अन्येऽपि
पिण्डशुद्धिकथिता दोषा बहवो भवन्ति ते चान्यत्र तर्कशास्त्रे ज्ञातव्याः अत्र
कहानजैनशास्त्रमाला ]
ज्ञानतत्त्व -प्रज्ञापन
३५
अन्वयार्थ :[केवलज्ञानिनः ] केवलज्ञानीके [देहगतं ] शरीरसम्बन्धी [सौख्यं ]
सुख [वा पुनः दुःखं ] या दुःख [नास्ति ] नहीं है, [यस्मात् ] क्योंकि [अतीन्द्रियत्वं जातं ]
अतीन्द्रियता उत्पन्न हुई है [तस्मात् तु तत् ज्ञेयम् ] इसलिये ऐसा जानना चाहिये
।।२०।।