श्रुतं हि तावत्सूत्रम् । तच्च भगवदर्हत्सर्वज्ञोपज्ञं स्यात्कारकेतनं पौद्गलिकं शब्दब्रह्म ।
तज्ज्ञप्तिर्हि ज्ञानम् । श्रुतं तु तत्कारणत्वात् ज्ञानत्वेनोपचर्यत एव । एवं सति सूत्रस्य ज्ञप्तिः
श्रुतज्ञानमित्यायाति । अथ सूत्रमुपाधित्वान्नाद्रियते ज्ञप्तिरेवावशिष्यते । सा च केवलिनः
श्रुतकेवलिनश्चात्मसंचेतने तुल्यैव इति नास्ति ज्ञानस्य श्रुतोपाधिभेदः ।। ३४ ।।
प्रदीपस्थानीयेन रागादिविकल्परहितपरमसमाधिना निजात्मानं पश्यतीति । अयमत्राभिप्रायः ---आत्मा
परोक्षः, कथं ध्यानं क्रियते इति सन्देहं कृत्वा परमात्मभावना न त्याज्येति ।।३३।। अथ शब्दरूपं
द्रव्यश्रुतं व्यवहारेण ज्ञानं निश्चयेनार्थपरिच्छित्तिरूपं भावश्रुतमेव ज्ञानमिति कथयति ।
अथवात्मभावनारतो निश्चयश्रुतकेवली भवतीति पूर्वसूत्रे भणितम् । अयं तु व्यवहारश्रुतकेवलीति
कथ्यते ---सुत्तं द्रव्यश्रुतम् । कथम्भूतम् । जिणोवदिट्ठं जिनोपदिष्टम् । कैः कृत्वा । पोग्गलदव्वप्पगेहिं वयणेहिं
पुद्गलद्रव्यात्मकैर्दिव्यध्वनिवचनैः । तं जाणणा हि णाणं तेन पूर्वोक्त शब्दश्रुताधारेण ज्ञप्तिरर्थपरि-
च्छित्तिर्ज्ञानं भण्यते हि स्फु टम् । सुत्तस्स य जाणणा भणिया पूर्वोक्तद्रव्यश्रुतस्यापि व्यवहारेण
ज्ञानव्यपदेशो भवति न तु निश्चयेनेति । तथा हि --यथा निश्चयेन शुद्धबुद्धैकस्वभावो जीवः
पश्चाद्वयवहारेण नरनारकादिरूपोऽपि जीवो भण्यते; तथा निश्चयेनाखण्डैकप्रतिभासरूपं समस्त-
वस्तुप्रकाशकं ज्ञानं भण्यते, पश्चाद्वयवहारेण मेघपटलावृतादित्यस्यावस्थाविशेषवत्कर्मपटलावृता-
खण्डैकज्ञानरूपजीवस्य मतिज्ञानश्रुतज्ञानादिव्यपदेशो भवतीति भावार्थः ।।३४।। अथ भिन्नज्ञानेनात्मा
१. स्यात्कार = ‘स्यात्’ शब्द । (स्यात् = कथंचित्; किसी अपेक्षासे)
२. ज्ञप्ति = जानना; जाननेकी क्रिया; जाननक्रिया ।
५८प्रवचनसार[ भगवानश्रीकुंदकुंद-
टीका : — प्रथम तो श्रुत ही सूत्र है; और वह सूत्र भगवान अर्हन्त – सर्वज्ञके द्वारा
स्वयं जानकर उपदिष्ट १स्यात्कार चिह्नयुक्त, पौदगलिक शब्दब्रह्म है । उसकी २ज्ञप्ति
(-शब्दब्रह्मको जाननेवाली ज्ञातृक्रिया) सो ज्ञान है; श्रुत (-सूत्र) तो उसका (-ज्ञानका)
कारण होनेसे ज्ञानके रूपमें उपचारसे ही कहा जाता है (जैसे कि अन्नको प्राण कहा जाता
है) । ऐसा होनेसे यह फलित हुआ कि ‘सूत्रकी ज्ञप्ति’ सो श्रुतज्ञान है । अब यदि सूत्र तो
उपाधि होनेसे उसका आदर न किया जाये तो ‘ज्ञप्ति’ ही शेष रह जाती है; (‘सूत्रकी ज्ञप्ति’
कहने पर निश्चयसे ज्ञप्ति कहीं पौद्गलिक सूत्रकी नहीं, किन्तु आत्माकी है; सूत्र ज्ञप्तिका
स्वरूपभूत नहीं, किन्तु विशेष वस्तु अर्थात् उपाधि है; क्योंकि सूत्र न हो तो वहाँ भी ज्ञप्ति
तो होती ही है । इसलिये यदि सूत्रको न गिना जाय तो ‘ज्ञप्ति’ ही शेष रहती है ।) और
वह (-ज्ञप्ति) केवली और श्रुतकेवलीके आत्मानुभवनमें समान ही है । इसलिये ज्ञानमें श्रुत-
उपाधिकृत भेद नहीं है ।।३४।।