पंचज्ञानावरणान्युपपद्यन्ते ? केवलज्ञानाद्याविर्भावसामग्री हि तत्र कदापि न भविष्यतित्यभव्यत्वं, न पुनः तद्योग्यद्रव्यस्याभावादिति । भव्यराश्यपेक्षया वा सर्वदेहिग्रहणं । आसन्नदूरदूरतरभव्येषु भव्यसमानअभव्येषु च सर्वेषु त्रिधाऽऽत्मा विद्यत इति । तर्हि सर्वज्ञे परमात्मन एव
सद्भावाद्बहिरन्तरात्मोरभावात्त्रिधात्मनो विरोध इत्यप्ययुक्तम् । भूतपूर्वप्रज्ञापननयापेक्षया तत्र
तद्विरोधासिद्धेः घृतघटवत् । यो हि सर्वज्ञावस्थायां परमात्मा सम्पन्नः स पूर्वबहिरात्मा अन्तरात्मा
चासीदिति । घृतघटवदन्तरात्मनोऽपि बहिरात्मत्वं परमात्मत्वं च भूतभाविप्रज्ञापन – नयापेक्षया दृष्टव्यम् ।
तत्र कुतः कस्योपादानं कस्य वात्यागः कर्तव्य इत्याह – उपेयादिति । तत्र तेषु त्रिधात्मसु मध्ये
उपेयात् स्वीकुर्यात् । परमं परमात्मानं । कस्मात् ? मध्योपायात् मध्योऽन्तरात्मा स एवोपायस्तस्मात् ।
तथा बहिः बहिरात्मानं मध्योपायादेव त्यजेत् ।।४।।
रीते घटी शके? केवलज्ञानादिना प्रगट थवारूप सामग्री ज तेमने कदापि थवानी नथी तेथी तेमनामां अभव्यपणुं छे, पण नहि के तद्योग्य द्रव्यना अभावथी (अभव्यपणुं छे); अथवा भव्यराशिनी अपेक्षाए सर्व देहीओनुं ग्रहण समजवुं. आसन्न भव्य, दूर भव्य, दूरतर भव्यमां तथा अभव्य जेवा भव्योमां – सर्वेमां त्रण प्रकारनो आत्मा छे.
तो सर्वज्ञमां परमात्मानो ज सद्भाव होवाथी अने (तेमां) बहिरात्मानो अने अंतरात्मानो असद्भाव होवाथी तेमां (सिद्धमां) त्रण प्रकारना आत्मानो विरोध आवशे?
एम कहेवुं पण योग्य नथी, कारण के भूतपूर्व१ प्रज्ञापन – नयनी अपेक्षाए तेमां घृतघटवत् ते विरोधनी असिद्धि छे (तेमां विरोध आवतो नथी). जे सर्वज्ञ अवस्थामां परमात्मा थया, ते पूर्वे बहिरात्मा तथा अंतरात्मा हता.
घृतघटनी जेम भूत – भावि प्रज्ञापन – नयनी अपेक्षाए अंतरात्माने पण बहिरात्मपणुं अने परमात्मपणुं समजवुं.
ए त्रणेमांथी कोनुं शा वडे ग्रहण करवुं के कोनो त्याग करवो ते कहे छे. ग्रहण करवुं एटले तेमां ते त्रण प्रकारना आत्माओने विषे परमात्मानो स्वीकार (ग्रहण) करवो. केवी रीते? मध्य उपायथी – मध्य एटले अन्तरात्मा ते ज उपाय छे ते द्वारा (परमात्मानुं ग्रहण करवुं) तथा मध्य (अंतरात्मारूप) उपायथी ज बहिरात्मानो त्याग करवो. (४)
भावार्थ : सर्वे जीवोमां बहिरात्मा, अंतरात्मा अने परमात्मा – ए त्रण प्रकारनी १. जे भूतकाळना पर्यायने वर्तमानवत् कहे ते ज्ञानने (अथवा वचनने) भूतनैगमनय (अथवा