Page 410 of 513
PDF/HTML Page 441 of 544
single page version
अत्र श्रामण्यपर्यायसहकारिकारणत्वेनाप्रतिषिध्यमानेऽत्यन्तमुपात्तदेहेऽपि परद्रव्यत्वात् परिग्रहोऽयं न नामानुग्रहार्हः किन्तूपेक्ष्य एवेत्यप्रतिकर्मत्वमुपदिष्टवन्तो भगवन्तोऽर्हद्देवाः । अथ तत्र शुद्धात्मतत्त्वोपलम्भसम्भावनरसिकस्य पुंसः शेषोऽन्योऽनुपात्तः परिग्रहो वराकः किं नाम स्यादिति व्यक्त एव हि तेषामाकूतः । अतोऽवधार्यते उत्सर्ग एव वस्तुधर्मो, न पुनरपवादः । इदमत्र तात्पर्यं, वस्तुधर्मत्वात्परमनैर्ग्रन्थ्यमेवावलम्ब्यम् ।।२२४।। णिप्पडिकम्मत्तमुद्दिट्ठा निःप्रतिकर्मत्वमुपदिष्टवन्तः । शुद्धोपयोगलक्षणपरमोपेक्षासंयमबलेन देहेऽपि निःप्रतिकारित्वं कथितवन्त इति। ततो ज्ञायते मोक्षसुखाभिलाषिणां निश्चयेन देहादिसर्वसङ्गपरित्याग एवोचितोऽन्यस्तूपचार एवेति ।।२२४।। एवमपवादव्याख्यानरूपेण द्वितीयस्थले गाथात्रयं गतम् । अथैकादशगाथापर्यन्तं स्त्रीनिर्वाणनिराकरणमुख्यत्वेन व्याख्यानं करोति । तद्यथा — श्वेताम्बरमतानुसारी शिष्यः पूर्वपक्षं करोति —
અન્વયાર્થઃ — [अथ] જો [जिनवरेन्द्राः] જિનવરેંદ્રોએ [अपुनर्भवकामिनः] મોક્ષના અભિલાષીને, [सङ्गः इति] ‘દેહ પરિગ્રહ છે’ એમ કહીને, [देहे अपि] દેહમાં પણ [अप्रतिकर्मत्वम्] અપ્રતિકર્મપણું (સંસ્કારરહિતપણું) [उद्दिष्टवन्तः] ઉપદેશ્યું છે, તો પછી [किं किञ्चनम् इति तर्कः] તેમનો એવો આશય છે કે તેને અન્ય પરિગ્રહ તો શાનો હોય?
ટીકાઃ — અહીં, શ્રામણ્યપર્યાયનું સહકારી કારણ હોવાથી જેનો નિષેધ કરવામાં આવ્યો નથી એવા અત્યંત ૧ઉપાત્ત દેહમાં પણ, ‘આ (દેહ) પરદ્રવ્ય હોવાથી પરિગ્રહ છે, ખરેખર તે અનુગ્રહયોગ્ય નથી પણ ઉપેક્ષાયોગ્ય જ છે’ એમ કહીને, ભગવંત અર્હંતદેવોએ અપ્રતિકર્મપણું ઉપદેશ્યું છે; તો પછી ત્યાં શુદ્ધાત્મતત્ત્વની ઉપલબ્ધિની સંભાવનાના રસિક પુરુષને શેષ અન્ય ૨અનુપાત્ત પરિગ્રહ બિચારો શાનો હોય — એવો તેમનો ( – અર્હંતદેવોનો) આશય વ્યક્ત જ છે. આથી નક્કી થાય છે કે — ઉત્સર્ગ જ વસ્તુધર્મ છે, અપવાદ નહિ.
આ અહીં તાત્પર્ય છે કે વસ્તુધર્મ હોવાથી પરમ નિર્ગ્રંથપણું જ અવલંબવાયોગ્ય છે. ૨૨૪. ૧. ઉપાત્ત = પ્રાપ્ત; મળેલો. ૨. અનુપાત્ત = અપ્રાપ્ત
Page 411 of 513
PDF/HTML Page 442 of 544
single page version
पेच्छदि ण हि इह लोगं निरुपरागनिजचैतन्यनित्योपलब्धिभावनाविनाशकं ख्यातिपूजालाभरूपं प्रेक्षते न च हि स्फु टं इह लोकम् । न च केवलमिह लोकं , परं च स्वात्मप्राप्तिरूपं मोक्षं विहाय स्वर्गभोगप्राप्तिरूपं परं च परलोकं च नेच्छति । स कः । समणिंददेसिदो धम्मो श्रमणेन्द्रदेशितो धर्मः, जिनेन्द्रोपदिष्ट इत्यर्थः । धम्मम्हि तम्हि कम्हा धर्मे तस्मिन् कस्मात् वियप्पियं विकल्पितं निर्ग्रन्थलिङ्गाद्वस्त्र- प्रावरणेन पृथक्कृतम् । किम् । लिंगं सावरणचिह्नम् । कासां संबन्धि । इत्थीणं स्त्रीणामिति पूर्वपक्षगाथा ।।“२०।। अथ परिहारमाह —
णिच्छयदो इत्थीणं सिद्धी ण हि तेण जम्मणा दिट्ठा निश्चयतः स्त्रीणां नरकादिगतिविलक्षणानन्त- सुखादिगुणस्वभावा तेनैव जन्मना सिद्धिर्न द्रष्टा, न कथिता । तम्हा तप्पडिरूवं तस्मात्कारणात्तत्प्रतियोग्यं सावरणरूपं वियप्पियं लिंगमित्थीणं निर्ग्रन्थलिङ्गात्पृथक्त्वेन विकल्पितं कथितं लिङ्गं प्रावरणसहितं चिह्नम् । कासाम् । स्त्रीणामिति ।।“२१।। अथ स्त्रीणां मोक्षप्रतिबन्धकं प्रमादबाहुल्यं दर्शयति —
पइडीपमादमइया प्रकृत्या स्वभावेन प्रमादेन निर्वृत्ता प्रमादमयी । का कर्त्री भवति । एदासिं वित्ति । एतासां स्त्रीणां वृत्तिः परिणतिः । भासिया पमदा तत एव नाममालायां प्रमदाः प्रमदासंज्ञा भाषिताः स्त्रियः । तम्हा ताओ पमदा यत एव प्रमदासंज्ञास्ताः स्त्रियः, तस्मात्तत एव पमादबहुला त्ति णिद्दिट्ठा निःप्रमादपरमात्मतत्त्वभावनाविनाशकप्रमादबहुला इति निर्दिष्टाः ।।“२२।। अथ तासां मोहादि- बाहुल्यं दर्शयति —
Page 412 of 513
PDF/HTML Page 443 of 544
single page version
संति धुवं पमदाणं सन्ति विद्यन्ते ध्रुवं निश्चितं प्रमदानां स्त्रीणाम् । के ते । मोहपदोसा भयं दुगुंछा य मोहादिरहितानन्तसुखादिगुणस्वरूपमोक्षकारणप्रतिबन्धकाः मोहप्रद्वेषभयदुगुंछापरिणामाः, चित्ते चित्ता माया कौटिल्यादिरहितपरमबोधादिपरिणतेः प्रतिपक्षभूता चित्ते मनसि चित्रा विचित्रा माया, तम्हा तासिं ण णिव्वाणं तत एव तासामव्याबाधसुखाद्यनन्तगुणाधारभूतं निर्वाणं नास्तीत्यभिप्रायः ।।“२३।। अथैतदेव द्रढयति —
ण विणा वट्टदि णारी न विना वर्तते नारी एक्कं वा तेसु जीवलोयम्हि तेषु निर्दोषि- परमात्मध्यानविघातकेषु पूर्वोक्तदोषेषु मध्ये जीवलोके त्वेकमपि दोषं विहाय ण हि संउडं च गत्तं न हि स्फु टं संवृत्तं गात्रं च शरीरं, तम्हा तासिं च संवरणं तत एव च तासां संवरणं वस्त्रावरणं क्रियत इति ।।“२४।। अथ पुनरपि निर्वाणप्रतिबन्धकदोषान्दर्शयति —
विज्जदि विद्यते तासु अ तासु च स्त्रीषु । किम् । चित्तस्सावो चित्तस्रवः, निःकामात्मतत्त्व- संवित्तिविनाशकचित्तस्य कामोद्रेकेण स्रवो रागसार्द्रभावः, तासिं तासां स्त्रीणां, सित्थिल्लं शिथिलस्य भावः शैथिल्यं, तद्भवमुक्तियोग्यपरिणामविषये चित्तदाढर्याभावः सत्त्वहीनपरिणाम इत्यर्थः, अत्तवं च पक्खलणं ऋतौ भवमार्तवं प्रस्खलनं रक्तस्रवणं, सहसा झटिति, मासे मासे दिनत्रयपर्यन्तं चित्तशुद्धिविनाशको रक्तस्रवो भवतीत्यर्थः, उप्पादो सुहममणुआणं उत्पाद उत्पत्तिः सूक्ष्मलब्ध्यपर्याप्त- मनुष्याणामिति ।।““ ““ “
लिंगम्हि य इत्थीणं थणंतरे णाहिकक्खपदेसेसु स्त्रीणां लिङ्गे योनिप्रदेशे, स्तनान्तरे, नाभिप्रदेशे, कक्षप्रदेशे च, भणिदो सुहुमुप्पादो एतेषु स्थानेषु सूक्ष्ममनुष्यादिजीवोत्पादो भणितः । एते पूर्वोक्तदोषाः
અન્વયાર્થઃ — [यथाजातरूपम् लिङ्गं] યથાજાતરૂપ જે લિંગ ( – જન્મ્યા પ્રમાણે રૂપ એવું જે લિંગ) તે [जिनमार्गे] જિનમાર્ગમાં [उपकरणम् इति भणितम्] ઉપકરણ કહેવામાં આવ્યું છે; [गुरुवचनं] ગુરુનાં વચન, [सूत्राध्ययनं च] સૂત્રોનું અધ્યયન [च] અને [विनयः अपि] વિનય પણ [निर्दिष्टम्] ઉપકરણ કહેલ છે.
Page 413 of 513
PDF/HTML Page 444 of 544
single page version
यो हि नामाप्रतिषिद्धोऽस्मिन्नुपधिरपवादः, स खलु निखिलोऽपि श्रामण्यपर्याय- सहकारिकारणत्वेनोपकारकारकत्वादुपकरणभूत एव, न पुनरन्यः । तस्य तु विशेषाः सर्वाहार्य- वर्जितसहजरूपापेक्षितयथाजातरूपत्वेन बहिरङ्गलिङ्गभूताः कायपुद्गलाः, श्रूयमाणतत्कालबोधक- पुरुषाणां किं न भवन्तीति चेत् । एवं न वक्तव्यं, स्त्रीषु बाहुल्येन भवन्ति । न चास्तित्वमात्रेण समानत्वम् । एकस्य विषकणिकास्ति, द्वितीयस्य च विषपर्वतोऽस्ति, किं समानत्वं भवति । किंतु पुरुषाणां प्रथमसंहननबलेन दोषविनाशको मुक्तियोग्यविशेषसंयमोऽस्ति । तासिं कह संजमो होदि ततः कारणात्तासां कथं संयमो भवतीति ।।“२६।। अथ स्त्रीणां तद्भवमुक्तियोग्यां सकलकर्मनिर्जरां निषेधयति —
जदि दंसणेण सुद्धा यद्यपि दर्शनेन सम्यक्त्वेन शुद्धा, सुत्तज्झयणे चावि संजुत्ता एकादशाङ्ग- सूत्राध्ययनेनापि संयुक्ता, घोरं चरदि व चरियं घोरं पक्षोपवासमासोपवासादि चरति वा चारित्रं, इत्थिस्स ण णिज्जरा भणिदा तथापि स्त्रीजनस्य तद्भवकर्मक्षययोग्या सकलनिर्जरा न भणितेति भावः । किंच यथा प्रथमसंहननाभावात्स्त्री सप्तमनरकं न गच्छति, तथा निर्वाणमपि । ‘‘पुंवेदं वेदंता पुरिसा जे खवगसेढिमारूढा । सेसोदयेण वि तहा झाणुवजुत्ता य ते दु सिज्झंति’’ इति गाथाकथितार्थाभिप्रायेण भावस्त्रीणां कथं निर्वाणमिति चेत् । तासां भावस्त्रीणां प्रथमसंहननमस्ति, द्रव्यस्त्रीवेदाभावात्तद्भवमोक्ष- परिणामप्रतिबन्धकतीव्रकामोद्रेकोऽपि नास्ति । द्रव्यस्त्रीणां प्रथमसंहननं नास्तीति कस्मिन्नागमे कथितमास्त इति चेत् । तत्रोदाहरणगाथा – ‘‘अंतिमतिगसंघडणं णियमेण य कम्मभूमिमहिलाणं । आदिमतिगसंघडणं णत्थि त्ति जिणेहिं णिद्दिट्ठं’’।। अथ मतम् – यदि मोक्षो नास्ति तर्हि भवदीयमते किमर्थमर्जिकानां महाव्रतारोपणम् । परिहारमाह – तदुपचारेण कुलव्यवस्थानिमित्तम् । न चोपचारः साक्षाद्भवितुमर्हति, अग्निवत् क्रूरोऽयं देवदत्त इत्यादिवत् । तथाचोक्तम् – मुख्याभावे सति प्रयोजने निमित्ते चोपचारः प्रवर्तते । किंतु यदि तद्भवे मोक्षो भवति स्त्रीणां तर्हि शतवर्षदीक्षिताया अर्जिकाया अद्यदिने दीक्षितः साधुः कथं वन्द्यो भवति । सैव प्रथमतः किं न वन्द्या भवति साधोः । किंतु भवन्मते
ટીકાઃ — આમાં જે અનિષિદ્ધ ઉપધિ અપવાદ છે, તે બધોય ખરેખર એવો જ છે કે જે શ્રામણ્યપર્યાયના સહકારી કારણ તરીકે ઉપકાર કરનારો હોવાથી ઉપકરણભૂત છે, બીજો નહિ. તેના વિશેષો (ભેદો) આ પ્રમાણે છેઃ (૧) સર્વ ૧આહાર્ય રહિત સહજ રૂપથી અપેક્ષિત એવા (સર્વ આહાર્ય રહિત) યથાજાતરૂપપણાને લીધે જે બહિરંગ લિંગભૂત છે એવાં ૧. આહાર્ય = બહારથી લાવવામાં આવતું; કૃત્રિમ; ઔપાધિક. [સર્વ કૃત્રિમ – ઔપાધિક ભાવોથી રહિત
અપેક્ષા રાખે છે અર્થાત્ મુનિના આત્માનું રૂપ – દશા – સહજ હોવાથી દેહ પણ યથાજાત જ હોવો
Page 414 of 513
PDF/HTML Page 445 of 544
single page version
गुरुगीर्यमाणात्मतत्त्वद्योतकसिद्धोपदेशवचनपुद्गलाः, तथाधीयमाननित्यबोधकानादिनिधनशुद्धात्म- तत्त्वद्योतनसमर्थश्रुतज्ञानसाधनीभूतशब्दात्मकसूत्रपुद्गलाश्च, शुद्धात्मतत्त्वव्यञ्जकदर्शनादिपर्याय- मल्लितीर्थकरः स्त्रीति कथ्यते, तदप्ययुक्तम् । तीर्थकरा हि सम्यग्दर्शनविशुद्धयादिषोडशभावनाः पूर्वभवे भावयित्वा पश्चाद्भवन्ति । सम्यग्द्रष्टेः स्त्रीवेदकर्मणो बन्ध एव नास्ति, कथं स्त्री भविष्यतीति । किंच यदि मल्लितीर्थकरो वान्यः कोऽपि वा स्त्री भूत्वा निर्वाणं गतः तर्हि स्त्रीरूपप्रतिमाराधना किं न क्रियते भवद्भिः । यदि पूर्वोक्तदोषाः सन्ति स्त्रीणां तर्हि सीतारुक्मिणीकुन्तीद्रौपदीसुभद्राप्रभृतयो जिनदीक्षां गृहीत्वा विशिष्टतपश्चरणेन कथं षोडशस्वर्गे गता इति चेत् । परिहारमाह – तत्र दोषो नास्ति, तस्मात्स्वर्गादागत्य पुरुषवेदेन मोक्षं यास्यन्त्यग्रे । तद्भवमोक्षो नास्ति, भवान्तरे भवतु, को दोष इति । इदमत्र तात्पर्यम् – स्वयं वस्तुस्वरूपमेव ज्ञातव्यं, परं प्रति विवादो न कर्तव्यः । कस्मात् । विवादे रागद्वेषोत्पत्तिर्भवति, ततश्च शुद्धात्मभावना नश्यतीति ।।“२७।। अथोपसंहाररूपेण स्थितपक्षं दर्शयति —
तम्हा यस्मात्तद्भवे मोक्षो नास्ति तस्मात्कारणात् तं पडिरूवं लिंगं तासिं जिणेहिं णिद्दिट्ठं तत्प्रतिरूपं वस्त्रप्रावरणसहितं लिङ्गं चिह्नं लाञ्छनं तासां स्त्रीणां जिनवरैः सर्वज्ञैर्निर्दिष्टं कथितम् । कुलरूववओजुत्ता समणीओ लोकदुगुञ्छारहितत्वेन जिनदीक्षायोग्यं कुलं भण्यते, अन्तरङ्गनिर्विकारचित्तशुद्धिज्ञापकं बहिरङ्गनिर्विकारं रूपं भण्यते, शरीरभङ्गरहितं वा अतिबालवृद्धबुद्धिवैकल्यरहितं वयो भण्यते, तैः कुलरूपवयोभिर्युक्ताः कुलरूपवयोयुक्ता भवन्ति । काः । श्रमण्योऽर्जिकाः । पुनरपि किंविशिष्टाः । तस्समाचारा तासां स्त्रीणां योग्यस्तद्योग्य आचारशास्त्रविहितः समाचार आचार आचरणं यासां तास्तत्समाचारा इति ।।“२८।। अथेदानीं पुरुषाणां दीक्षाग्रहणे वर्णव्यवस्थां कथयति — કાયપુદ્ગલો; (૨) જેમનું શ્રવણ કરવામાં આવે છે એવાં, ૧તત્કાળબોધક, ગુરુ વડે કહેવામાં આવતાં, ૨આત્મતત્ત્વદ્યોતક, ૩સિદ્ધ ઉપદેશરૂપ વચનપુદ્ગલો; તેમ જ (૩) જેમનું અધ્યયન કરવામાં આવે છે એવાં, નિત્યબોધક, અનાદિનિધન શુદ્ધ આત્મતત્ત્વને પ્રકાશવામાં સમર્થ શ્રુતજ્ઞાનના સાધનભૂત, શબ્દાત્મક સૂત્રપુદ્ગલો; અને (૪) શુદ્ધ આત્મતત્ત્વને વ્યક્ત કરનાર દર્શનાદિક જે પર્યાયો તે -રૂપે પરિણમેલા પુરુષ પ્રત્યે ૪વિનીતતાનો અભિપ્રાય પ્રવર્તાવનારાં ૧. તત્કાળબોધક = તે કાળે જ (ઉપદેશકાળે જ) બોધ દેનારાં. [શાસ્ત્રશબ્દો સદા બોધનાં નિમિત્તભૂત
હોવાથી નિત્યબોધક કહેવામાં આવ્યા છે; ગુરુવચનો ઉપદેશકાળે જ બોધનાં નિમિત્તભૂત હોવાથી તત્કાળબોધક કહેવામાં આવ્યાં છે.] ૨. આત્મતત્ત્વદ્યોતક = આત્મતત્ત્વને સમજાવનારાં – પ્રકાશનારાં ૩. સિદ્ધ = સફળ; રામબાણ; અમોઘ; અચૂક. [ગુરુનો ઉપદેશ સિદ્ધ – સફળ – રામબાણ છે.] ૪. વિનીતતા = વિનય; નમ્રતા. [સમ્યગ્દર્શનાદિ પર્યાયે પરિણમેલા પુરુષ પ્રત્યે વિનયભાવે પ્રવર્તવામાં
Page 415 of 513
PDF/HTML Page 446 of 544
single page version
तत्परिणतपुरुषविनीतताभिप्रायप्रवर्तकचित्तपुद्गलाश्च भवन्ति । इदमत्र तात्पर्यं, कायवद्वचन- मनसी अपि न वस्तुधर्मः ।।२२५।।
वण्णेसु तीसु एक्को वर्णेषु त्रिष्वेकः ब्राह्मणक्षत्रियवैश्यवर्णेष्वेकः । कल्लाणंगो कल्याणाङ्ग आरोग्यः । तवोसहो वयसा तपःसहः तपःक्षमः । केन । अतिवृद्धबालत्वरहितवयसा । सुमुहो निर्विकाराभ्यन्तरपरमचैतन्यपरिणतिविशुद्धिज्ञापकं गमकं बहिरङ्गनिर्विकारं मुखं यस्य, मुखावयवभङ्ग- रहितं वा, स भवति सुमुखः । कुच्छारहिदो लोकमध्ये दुराचाराद्यपवादरहितः । लिंगग्गहणे हवदि जोग्गो एवंगुणविशिष्टपुरुषो जिनदीक्षाग्रहणे योग्यो भवति । यथायोग्यं सच्छूद्राद्यपि ।।“२९।। अथ निश्चयनयाभिप्रायं कथयति —
जो रयणत्तयणासो सो भंगो जिणवरेहिं णिद्दिट्ठो यो रत्नत्रयनाशः स भङ्गो जिनवरैर्निर्दिष्टः । विशुद्धज्ञानदर्शनस्वभावनिजपरमात्मतत्त्वसम्यक्श्रद्धाज्ञानानुष्ठानरूपो योऽसौ निश्चयरत्नत्रयस्वभावस्तस्य विनाशः स एव निश्चयेन नाशो भङ्गो जिनवरैर्निर्दिष्टः । सेसं भंगेण पुणो शेषभङ्गेन पुनः शेषखण्डमुण्डवातवृषणादिभङ्गेन ण होदि सल्लेहणाअरिहो न भवति सल्लेखनार्हः । लोकदुगुञ्छाभयेन निर्ग्रन्थरूपयोग्यो न भवति । कौपीनग्रहणेन तु भावनायोग्यो भवतीत्यभिप्रायः ।।“३०।। एवं स्त्रीनिर्वाणनिराकरणव्याख्यानमुख्यत्वेनैकादशगाथाभिस्तृतीयं स्थलं गतम् । अथ पूर्वोक्तस्योपकरणरूपा- पवादव्याख्यानस्य विशेषविवरणं करोति — इदि भणिदं इति भणितं कथितम् । किम् । उवयरणं उपकरणम् । क्व । जिणमग्गे जिनोक्तमोक्षमार्गे । किमुपकरणम् । लिंगं शरीराकारपुद्गलपिण्डरूपं ચિત્તપુદ્ગલો. (અપવાદમાર્ગમાં જે ઉપકરણભૂત ઉપધિનો નિષેધ નથી તેના ઉપરોકત ચાર ભેદો છે.)
ભાવાર્થઃ — જે શ્રમણને શ્રામણ્યપર્યાયના સહકારી કારણભૂત, સર્વ કૃત્રિમતાઓથી રહિત યથાજાત રૂપ સન્મુખ વૃત્તિ જાય, તેને કાયાનો પરિગ્રહ છે; જે શ્રમણને ગુરુ -ઉપદેશના શ્રવણમાં વૃત્તિ રોકાય, તેને વચનપુદ્ગલોનો પરિગ્રહ છે; જે શ્રમણને સૂત્રાધ્યયનમાં વૃત્તિ રોકાય, તેને સૂત્રપુદ્ગલોનો પરિગ્રહ છે; અને જે શ્રમણને યોગ્ય પુરુષના વિનયરૂપ પરિણામ થાય, તેને મનનાં પુદ્ગલોનો પરિગ્રહ છે. જોકે આ પરિગ્રહો ઉપકરણભૂત હોવાથી અપવાદમાર્ગમાં તેમનો નિષેધ નથી, તોપણ તેઓ વસ્તુધર્મ નથી. ૨૨૫.
Page 416 of 513
PDF/HTML Page 447 of 544
single page version
अनादिनिधनैकरूपशुद्धात्मतत्त्वपरिणतत्वादखिलकर्मपुद्गलविपाकात्यन्तविविक्तस्वभावत्वेन रहितकषायत्वात्तदात्वमनुष्यत्वेऽपि समस्तमनुष्यव्यवहारबहिर्भूतत्वेनेहलोकनिरापेक्षत्वात्तथा द्रव्यलिङ्गम् । किंविशिष्टम् । जहजादरूवं यथाजातरूपं, यथाजातरूपशब्देनात्र व्यवहारेण संगपरित्यागयुक्तं नग्नरूपं, निश्चयेनाभ्यन्तरेण शुद्धबुद्धैकस्वभावं परमात्मस्वरूपं । गुरुवयणं पि य गुरुवचनमपि, निर्विकारपरमचिज्जयोतिःस्वरूपपरमात्मतत्त्वप्रतिबोधकं सारभूतं सिद्धोपदेशरूपं गुरूपदेशवचनम् । न केवलं गुरूपदेशवचनम्, सुत्तज्झयणं च आदिमध्यान्तवर्जितजातिजरामरणरहितनिजात्मद्रव्यप्रकाशक- सूत्राध्ययनं च, परमागमवाचनमित्यर्थः । णिद्दिट्ठं उपकरणरूपेण निर्दिष्टं कथितम् । विणओ स्वकीयनिश्चयरत्नत्रयशुद्धिर्निश्चयविनयः, तदाधारपुरुषेषु भक्तिपरिणामो व्यवहारविनयः । उभयोऽपि विनयपरिणाम उपकरणं भवतीति निर्दिष्टः । अनेन किमुक्तं भवति — निश्चयेन चतुर्विधमेवोपकरणम् । अन्यदुपकरणं व्यवहार इति ।।२२५।। अथ युक्ताहारविहारलक्षणतपोधनस्य स्वरूपमाख्याति – इहलोगणिरावेक्खो इहलोकनिरापेक्षः, टङ्कोत्कीर्णज्ञायकैकस्वभावनिजात्मसंवित्तिविनाशकख्यातिपूजा- लाभरूपेहलोककाङ्क्षारहितः, अप्पडिबद्धो परम्हि लोयम्हि अप्रतिबद्धः परस्मिन् लोके, तपश्चरणे कृते दिव्यदेवस्त्रीपरिवारादिभोगा भवन्तीति, एवंविधपरलोके प्रतिबद्धो न भवति, जुत्ताहारविहारो हवे युक्ताहारविहारो भवेत् । स कः । समणो श्रमणः । पुनरपि कथंभूतः । रहिदकसाओ निःकषायस्वरूप-
અન્વયાર્થઃ — [श्रमणः] શ્રમણ [रहितकषायः] કષાયરહિત વર્તતો થકો [इहलोक- निरापेक्षः] આ લોકમાં નિરપેક્ષ અને [परस्मिन् लोके] પર લોકમાં [अप्रतिबद्धः] અપ્રતિબદ્ધ હોવાથી [युक्ताहारविहारः भवेत्] *યુક્તાહારવિહારી હોય છે.
ટીકાઃ — અનાદિનિધન એકરૂપ શુદ્ધ આત્મતત્ત્વમાં પરિણત હોવાને લીધે શ્રમણ સમસ્ત કર્મપુદ્ગલના વિપાકથી અત્યંત વિવિક્ત ( – ભિન્ન) સ્વભાવ વડે કષાયરહિત *યુક્તાહારવિહારી = (૧) યોગ્ય (-ઉચિત) આહાર -વિહારવાળો. (૨) યુક્તના અર્થાત્ યોગીના
Page 417 of 513
PDF/HTML Page 448 of 544
single page version
भविष्यदमर्त्यादिभावानुभूतितृष्णाशून्यत्वेन परलोकाप्रतिबद्धत्वाच्च, परिच्छेद्यार्थोपलम्भप्रसिद्धयर्थ- प्रदीपपूरणोत्सर्पणस्थानीयाभ्यां शुद्धात्मतत्त्वोपलम्भप्रसिद्धयर्थतच्छरीरसम्भोजनसञ्चलनाभ्यां युक्ताहारविहारो हि स्यात् श्रमणः । इदमत्र तात्पर्यम् — यतो हि रहितकषायः ततो न तच्छरीरानुरागेण दिव्यशरीरानुरागेण वाहारविहारयोरयुक्त्या प्रवर्तेत । शुद्धात्मतत्त्वोपलम्भ- साधकश्रामण्यपर्यायपालनायैव केवलं युक्ताहारविहारः स्यात् ।।२२६।।
संवित्त्यवष्टम्भबलेन रहितकषायश्चेति । अयमत्र भावार्थः — योऽसौ इहलोकपरलोकनिरपेक्षत्वेन निःकषायत्वेन च प्रदीपस्थानीयशरीरे तैलस्थानीयं ग्रासमात्रं दत्वा घटपटादिप्रकाश्यपदार्थस्थानीयं निजपरमात्मपदार्थमेव निरीक्षते स एव युक्ताहारविहारो भवति, न पुनरन्यः शरीरपोषणनिरत इति ।।२२६।। अथ पञ्चदशप्रमादैस्तपोधनः प्रमत्तो भवतीति प्रतिपादयति — હોવાથી, તે કાળે (વર્તમાન કાળે) મનુષ્યપણું હોવા છતાં પણ (પોતે) સમસ્ત મનુષ્ય- વ્યવહારથી ૧બહિર્ભૂત હોવાને લીધે આ લોક પ્રત્યે નિરપેક્ષ (નિઃસ્પૃહ) છે, તેમ જ ભવિષ્યમાં થનારા દેવાદિ ભાવો અનુભવવાની તૃષ્ણાથી શૂન્ય હોવાને લીધે પર લોક પ્રત્યે અપ્રતિબદ્ધ છે; તેથી, જેમ જ્ઞેય પદાર્થોના જ્ઞાનની સિદ્ધિને માટે ( – ઘટપટાદિ પદાર્થોને જોવા માટે જ) દીવામાં તેલ પૂરવામાં આવે છે અને દીવાને ખસેડવામાં આવે છે તેમ, શ્રમણ શુદ્ધ આત્મતત્ત્વની ઉપલબ્ધિની સિદ્ધિને માટે ( – શુદ્ધાત્માને પ્રાપ્ત કરવા માટે જ) તે શરીરને ખવડાવતો અને ચલાવતો હોવાથી યુક્તાહારવિહારી હોય છે.
આ અહીં તાત્પર્ય છેઃ શ્રમણ કષાયરહિત છે તેથી તે શરીરના ( – વર્તમાન મનુષ્યશરીરના) અનુરાગથી કે દિવ્ય શરીરના ( – ભવિષ્યના દેવશરીરના) અનુરાગથી એ આહાર -વિહારમાં અયુક્તપણે પ્રવર્તતો નથી; શુદ્ધ આત્મતત્ત્વની ઉપલબ્ધિના સાધકભૂત શ્રામણ્યપર્યાયના પાલનને માટે જ કેવળ યુક્તાહારવિહારી હોય છે. ૨૨૬.
હવે, યુક્તાહારવિહારી સાક્ષાત્ અનાહારવિહારી ( – અનાહારી અને અવિહારી) જ છે એમ ઉપદેશે છેઃ —
Page 418 of 513
PDF/HTML Page 449 of 544
single page version
स्वयमनशनस्वभावत्वादेषणादोषशून्यभैक्ष्यत्वाच्च, युक्ताहारः साक्षादनाहार एव स्यात् । तथाहि — यस्य सकलकालमेव सकलपुद्गलाहरणशून्यमात्मानमवबुद्धयमानस्य सकलाशनतृष्णा- शून्यत्वात्स्वयमनशन एव स्वभावः, तदेव तस्यानशनं नाम तपोऽन्तरङ्गस्य बलीयस्त्वात्; इति कृत्वा ये तं स्वयमनशनस्वभावं भावयन्ति श्रमणाः, तत्प्रतिषिद्धये चैषणादोषशून्य-
हवदि क्रोधादिपञ्चदशप्रमादरहितचिच्चमत्कारमात्रात्मतत्त्वभावनाच्युतः सन् भवति । स कः कर्ता । समणो सुखदुःखादिसमचित्तः श्रमणः । किंविशिष्टो भवति । पमत्तो प्रमत्तः प्रमादी । कैः कृत्वा । कोहादिएहि चउहि वि चतुर्भिरपि क्रोधादिभिः, विकहाहि स्त्रीभक्तचोरराजकथाभिः, तहिंदियाणमत्थेहिं तथैव पञ्चेन्द्रियाणामर्थैः स्पर्शादिविषयैः । पुनरपि किंरूपः। उवजुत्तो उपयुक्तः परिणतः । काभ्याम् । णेहणिद्दाहिं स्नेहनिद्राभ्यामिति ।।“३१।। अथ युक्ताहारविहारतपोधनस्वरूपमुपदिशति – जस्स यस्य मुनेः संबन्धी अप्पा आत्मा । किंविशिष्टः । अणेसणं स्वकीयशुद्धात्मतत्त्वभावनोत्पन्नसुखामृताहारेण तृप्तत्वान्न विद्यते
અન્વયાર્થઃ — [यस्य आत्मा अनेषणः] જેનો આત્મા એષણારહિત છે (અર્થાત્ જે અનશનસ્વભાવી આત્માને જાણતો હોવાને લીધે સ્વભાવથી આહારની ઇચ્છા રહિત છે) [तत् अपि तपः] તેને તે પણ તપ છે; (વળી) [तत्प्रत्येषकाः] તેને પ્રાપ્ત કરવા માટે ( – અનશનસ્વભાવી આત્માને પરિપૂર્ણપણે પ્રાપ્ત કરવા માટે) પ્રયત્ન કરનારા [श्रमणाः] એવા જે શ્રમણો તેમને [अन्यत् भैक्षम्] અન્ય ( – સ્વરૂપથી જુદી એવી) ભિક્ષા [अनेषणम्] એષણા વિના ( – એષણાદોષ રહિત) હોય છે; [अथ] તેથી [ते श्रमणाः] તે શ્રમણો [अनाहाराः] અનાહારી છે.
ટીકાઃ — (૧) સ્વયં અનશનસ્વભાવી હોવાથી (અર્થાત્ પોતાના આત્માને સ્વયં અનશનસ્વભાવી જાણતો હોવાથી) અને (૨) એષણાદોષશૂન્ય ભિક્ષાવાળો હોવાથી, યુક્તાહારી ( – યુક્તાહારવાળો શ્રમણ) સાક્ષાત્ અનાહારી જ છે. તે આ પ્રમાણેઃ — સદાય સમસ્ત પુદ્ગલના આહારથી શૂન્ય એવા આત્માને જાણતો થકો સમસ્ત અશનતૃષ્ણા રહિત હોવાને લીધે જેનો ૧સ્વયં અનશન જ સ્વભાવ છે, તે જ તેને અનશન નામનું તપ છે, કારણ કે અંતરંગનું વિશેષ બળવાનપણું છે; — આમ સમજીને જે શ્રમણો (૧) આત્માને સ્વયં અનશનસ્વભાવી ભાવે છે ( – સમજે છે, અનુભવે છે) અને (૨) તેની સિદ્ધિને માટે ( – પૂર્ણ પ્રાપ્તિને માટે ) એષણાદોષશૂન્ય એવી અન્ય ( – પરરૂપ) ભિક્ષા આચરે છે, તેઓ ૧. સ્વયં = પોતાની મેળે; પોતાથી; સહજપણે. [પોતાના આત્માને સ્વયં અનશનસ્વભાવી જાણવો તે
Page 419 of 513
PDF/HTML Page 450 of 544
single page version
मन्यद्भैक्षं चरन्ति, ते किलाहरन्तोऽप्यनाहरन्त इव युक्ताहारत्वेन स्वभावपरभावप्रत्यय- बन्धाभावात्साक्षादनाहारा एव भवन्ति । एवं स्वयमविहारस्वभावत्वात्समितिशुद्धविहारत्वाच्च युक्तविहारः साक्षादविहार एव स्यात् इत्यनुक्तमपि गम्येतेति ।।२२७।।
एषणमाहाराकाङ्क्षा यस्य स भवत्यनेषणः, तं पि तवो तस्य तदेव निश्चयेन निराहारात्मभावना- रूपमुपवासलक्षणं तपः, तप्पडिच्छगा समणा तत्प्रत्येषकाः श्रमणाः, तन्निश्चयोपवासलक्षणं तपः प्रतीच्छन्ति तत्प्रत्येषकाः श्रमणाः । पुनरपि किं येषाम् । अण्णं निजपरमात्मतत्त्वादन्यद्भिन्नं हेयम् । किम् । अणेसणं अन्नस्याहारस्यैषणं वाच्छा अन्नैषणम् । कथंभूतम् । भिक्खं भिक्षायां भवं भैक्ष्यं । अध अथ अहो, ते समणा अणाहारा ते अनशनादिगुणविशिष्टाः श्रमणा आहारग्रहणेऽप्यनाहारा भवन्ति । तथैव च निःक्रियपरमात्मानं ये भावयन्ति, पञ्चसमितिसहिता विहरन्ति च, ते विहारेऽप्यविहारा भवन्तीत्यर्थः ।।२२७।। अथ तदेवानाहारकत्वं प्रकारान्तरेण प्राह – केवलदेहो केवलदेहोऽन्यपरिग्रहरहितो આહાર કરતા હોવા છતાં આહાર ન કરતા હોય એવા હોવાથી સાક્ષાત્ અનાહારી જ છે, કારણ કે યુક્તાહારીપણાને લીધે તેમને સ્વભાવ તેમ જ પરભાવના નિમિત્તે બંધ થતો નથી.
એ પ્રમાણે (જેમ યુક્તાહારી સાક્ષાત્ અનાહારી જ છે એમ કહેવામાં આવ્યું તે પ્રમાણે), (૧) સ્વયં અવિહારસ્વભાવી હોવાથી અને (૨) સમિતિશુદ્ધ ( – ઈર્યાસમિતિ વડે શુદ્ધ એવા) વિહારવાળો હોવાથી યુક્તવિહારી ( – યુક્તવિહારવાળો શ્રમણ) સાક્ષાત્ અવિહારી જ છે — એમ, અનુક્ત હોવા છતાં પણ ( – ગાથામાં નહિ કહ્યું હોવા છતાં પણ), સમજવું. ૨૨૭.
અન્વયાર્થઃ — [केवलदेहः श्रमणः] કેવળદેહી શ્રમણે ( – જેને માત્ર દેહરૂપ પરિગ્રહ જ વર્તે છે એવા મુનિએ) [देहे] દેહમાં પણ [न मम इति] ‘મારો નથી’ એમ સમજીને [रहित-
Page 420 of 513
PDF/HTML Page 451 of 544
single page version
यतो हि श्रमणः श्रामण्यपर्यायसहकारिकारणत्वेन केवलदेहमात्रस्योपधेः प्रसह्या- प्रतिषेधकत्वात्केवलदेहत्वे सत्यपि देहे ‘किं किंचण’ इत्यादिप्राक्तनसूत्रद्योतितपरमेश्वराभिप्राय- परिग्रहेण न नाम ममायं ततो नानुग्रहार्हः किन्तूपेक्ष्य एवेति परित्यक्तसमस्तसंस्कारत्वाद्रहित- परिकर्मा स्यात् । ततस्तन्ममत्वपूर्वकानुचिताहारग्रहणाभावाद्युक्ताहारत्वं सिद्धयेत् । यतश्च समस्तामप्यात्मशक्तिं प्रकटयन्ननन्तरसूत्रोदितेनानशनस्वभावलक्षणेन तपसा तं देहं सर्वारम्भेणा- भियुक्तवान् स्यात्, तत आहारग्रहणपरिणामात्मकयोगध्वंसाभावाद्युक्तस्यैवाहारेण च युक्ताहारत्वं सिद्धयेत् ।।२२८।। भवति । स कः कर्ता । समणो निन्दाप्रशंसादिसमचित्तः श्रमणः । तर्हि किं देहे ममत्वं भविष्यति । नैवं । देहे वि ममत्तरहिदपरिकम्मो देहेऽपि ममत्वरहितपरिकर्मा, ‘‘ममत्तिं परिवज्जामि णिम्ममत्तिं उवट्ठिदो । आलंबणं च मे आदा अवसेसाइं वोसरे ।।’’ इति श्लोककथितक्रमेण देहेऽपि ममत्वरहितः । आजुत्तो तं तवसा आयुक्तवान् आयोजितवांस्तं देहं तपसा । किं कृत्वा । अणिगूहिय अनिगूह्य प्रच्छादनमकृत्वा । कां । अप्पणो सत्तिं आत्मनः शक्तिमिति । अनेन किमुक्तं भवति – यः कोऽपि देहाच्छेषपरिग्रहं त्यक्त्वा परिकर्मा] ૧પરિકર્મ રહિત વર્તતાં થકાં, [आत्मनः] પોતાના આત્માની [शक्तिं] શક્તિને [अनिगूह्य] ગોપવ્યા વિના [तपसा] તપ સાથે [तं] તેને ( – દેહને) [आयुक्तवान्] યુક્ત કર્યો ( – જોડ્યો) છે.
ટીકાઃ — શ્રામણ્યપર્યાયના સહકારી કારણ તરીકે કેવળ દેહમાત્ર ઉપધિને શ્રમણ જોરથી – હઠથી નહિ નિષેધતો હોવાને લીધે તે કેવળ દેહવાળો છે; એમ (દેહવાળો) હોવા છતાં પણ, ‘किं किंचण’ ઇત્યાદિ પૂર્વસૂત્ર (૨૨૪ મી ગાથા) વડે પ્રકાશિત કરવામાં આવેલા પરમેશ્વરના અભિપ્રાયનું ગ્રહણ કરી ‘આ (દેહ) ખરેખર મારો નથી, તેથી તે અનુગ્રહયોગ્ય નથી પરંતુ ઉપેક્ષાયોગ્ય જ છે’ એમ દેહમાં સમસ્ત સંસ્કારને છોડેલ હોવાથી ૧પરિકર્મ રહિત છે; તેથી તેને દેહના મમત્વપૂર્વક અનુચિત આહારગ્રહણનો અભાવ હોવાને લીધે યુક્તાહારીપણું સિદ્ધ થાય છે. વળી (બીજી રીતે), તેણે (આત્મશક્તિને જરાય ગોપવ્યા વિના) સઘળીયે આત્મશક્તિને પ્રગટ કરીને, છેલ્લા સૂત્ર (૨૨૭ મી ગાથા) દ્વારા કહેવામાં આવેલા ૨અનશનસ્વભાવલક્ષણ તપ સાથે તે દેહને સર્વ આરંભથી (ઉદ્યમથી) યુક્ત કર્યો ( – જોડ્યો) છે; તેથી આહારગ્રહણના પરિણામસ્વરૂપ જે ૩યોગધ્વંસ તેનો અભાવ હોવાને લીધે તેનો આહાર યુક્તનો ( – યોગીનો) આહાર છે; માટે તેને યુક્તાહારીપણું સિદ્ધ થાય છે. ૧. પરિકર્મ = શોભા; શણગાર; સંસ્કાર; પ્રતિકર્મ. ૨. અનશનસ્વભાવલક્ષણ તપ = અનશનસ્વભાવ જેનું લક્ષણ છે એવું તપ. [જે આત્માના
અનશનસ્વભાવને જાણે છે તેને અનશનસ્વભાવલક્ષણ તપ વર્તે છે.] ૩. યોગધ્વંસ = યોગનો નાશ. [‘આહાર ગ્રહવાનો આત્માનો સ્વભાવ છે’ એવા પરિણામે પરિણમવું
Page 421 of 513
PDF/HTML Page 452 of 544
single page version
एककाल एवाहारो युक्ताहारः, तावतैव श्रामण्यपर्यायसहकारिकारणशरीरस्य धारण- त्वात् । अनेककालस्तु शरीरानुरागसेव्यमानत्वेन प्रसह्य हिंसायतनीक्रियमाणो न युक्तः, देहेऽपि ममत्वरहितस्तथैव तं देहं तपसा योजयति स नियमेन युक्ताहारविहारो भवतीति ।।२२८।। अथ युक्ताहारत्वं विस्तरेणाख्याति – एक्कं खलु तं भत्तं एककाल एव खलु हि स्फु टं स भक्त आहारो युक्ताहारः । कस्मात् । एकभक्तेनैव निर्विकल्पसमाधिसहकारिकारणभूतशरीरस्थितिसंभवात् । स च कथंभूतः । अप्पडिपुण्णोदरं यथाशक्त्या न्यूनोदरः । जहालद्धं यथालब्धो, न च स्वेच्छालब्धः । चरणं भिक्खेण
ભાવાર્થઃ — શ્રમણ બે પ્રકારે યુક્તાહારી સિદ્ધ થાય છેઃ (૧) શરીર પર મમત્વ નહિ હોવાથી તેને ઉચિત જ આહાર હોય છે તેથી તે યુક્તાહારી અર્થાત્ ઉચિત આહારવાળો છે. વળી (૨) ‘આહારગ્રહણ આત્માનો સ્વભાવ નથી’ એવા પરિણામસ્વરૂપ યોગ શ્રમણને વર્તતો હોવાથી તે શ્રમણ યુક્ત અર્થાત્ યોગી છે અને તેથી તેનો આહાર યુક્તાહાર અર્થાત્ યોગીનો આહાર છે. ૨૨૮.
અન્વયાર્થઃ — [खलु] ખરેખર [सः भक्तः] તે આહાર ( – યુક્તાહાર) [एकः] એક વખત, [अप्रतिपूर्णोदरः] ઊણોદર, [यथालब्धः] યથાલબ્ધ ( – જેવો મળે તેવો), [भैक्षाचरणेन] ભિક્ષાચરણથી, [दिवा] દિવસે, [न रसापेक्षः] રસની અપેક્ષા વિનાનો અને [न मधुमांसः] મધ- માંસ રહિત હોય છે.
ટીકાઃ — એક વખત આહાર તે જ યુક્તાહાર છે, કારણ કે તેટલાથી જ શ્રામણ્ય- પર્યાયના સહકારી કારણભૂત શરીર ટકે છે. [એકથી વધારે વખત આહાર તે યુક્તાહાર નથી એમ નીચે પ્રમાણે બે પ્રકારે સિદ્ધ થાય છેઃ] (૧) અનેક વખત આહાર તો શરીરના અનુરાગથી સેવવામાં આવતો હોવાથી અત્યંતપણે ૧હિંસાયતન કરવામાં આવતો થકો યુક્ત ૧. હિંસાયતન = હિંસાનું સ્થાન. [એકથી વધારે વખત આહાર કરવામાં શરીરનો અનુરાગ હોય છે તેથી તે
Page 422 of 513
PDF/HTML Page 453 of 544
single page version
शरीरानुरागसेवकत्वेन न च युक्तस्य । अप्रतिपूर्णोदर एवाहारो युक्ताहारः, तस्यैवाप्रतिहत- योगत्वात् । प्रतिपूर्णोदरस्तु प्रतिहतयोगत्वेन कथञ्चित् हिंसायतनीभवन् न युक्तः, प्रतिहत- योगत्वेन न च युक्तस्य । यथालब्ध एवाहारो युक्ताहारः, तस्यैव विशेषप्रियत्वलक्षणानुराग- शून्यत्वात् । अयथालब्धस्तु विशेषप्रियत्वलक्षणानुरागसेव्यमानत्वेन प्रसह्य हिंसायतनीक्रियमाणो न युक्तः, विशेषप्रियत्वलक्षणानुरागसेवकत्वेन न च युक्तस्य । भिक्षाचरणेनैवाहारो युक्ताहारः, तस्यैवारम्भशून्यत्वात् । अभैक्षाचरणेन त्वारम्भसम्भवात्प्रसिद्धहिंसायतनत्वेन न युक्तः, एवं- विधाहारसेवनव्यक्तान्तरशुद्धित्वान्न च युक्तस्य । दिवस एवाहारो युक्ताहारः, तदेव सम्यगव- लोकनात् । अदिवसे तु सम्यगवलोकनाभावादनिवार्यहिंसायतनत्वेन न युक्तः, भिक्षाचरणेनैव लब्धो, न च स्वपाकेन । दिवा दिवैव, न च रात्रौ । ण रसावेक्खं रसापेक्षो न भवति, किंतु सरसविरसादौ समचित्तः । ण मधुमंसं अमधुमांसः, अमधुमांस इत्युपलक्षणेन आचारशास्त्र- कथितपिण्डशुद्धिक्रमेण समस्तायोग्याहाररहित इति । एतावता किमुक्तं भवति । एवंविशिष्टविशेषणयुक्त एवाहारस्तपोधनानां युक्ताहारः । कस्मादिति चेत् । चिदानन्दैकलक्षणनिश्चयप्राणरक्षणभूता रागादि- ( – યોગ્ય) નથી (અર્થાત્ તે યુક્તાહાર નથી); વળી (૨) અનેક વખત આહારનો સેવનાર શરીરના અનુરાગ વડે સેવનારો હોવાથી તે આહાર ૧યુક્તનો ( – યોગીનો) નથી (અર્થાત્ તે યુક્તાહાર નથી).
૨અપૂર્ણોદર આહાર તે જ યુક્તાહાર છે, કારણ કે તે જ ૩પ્રતિહત ૪યોગ વિનાનો છે. [પૂર્ણોદર આહાર યુક્તાહાર નથી એમ નીચે પ્રમાણે બે પ્રકારે સિદ્ધ થાય છેઃ] (૧) પૂર્ણોદર આહાર તો પ્રતિહત યોગવાળો હોવાથી કથંચિત્ હિંસાયતન બનતો થકો યુક્ત ( – યોગ્ય) નથી; વળી (૨) પૂર્ણોદર આહાર કરનાર પ્રતિહત યોગવાળો હોવાથી તે આહાર યુક્તનો ( – યોગીનો) નથી.
યથાલબ્ધ આહાર તે જ યુક્તાહાર છે, કારણ કે તે જ (આહાર) વિશેષપ્રિયતાસ્વરૂપ અનુરાગથી શૂન્ય છે. (૧) ૫અયથાલબ્ધ આહાર તો વિશેષપ્રિયતાસ્વરૂપ અનુરાગ વડે સેવવામાં આવતો હોવાથી અત્યંતપણે હિંસાયતન કરવામાં આવતો થકો યુક્ત ( – યોગ્ય) નથી; વળી (૨) અયથાલબ્ધ આહારનો સેવનાર વિશેષપ્રિયતાસ્વરૂપ અનુરાગ વડે સેવનારો હોવાથી તે આહાર યુક્તનો ( – યોગીનો) નથી. ૧. યુક્ત = આત્મસ્વભાવમાં જોડાણવાળો; યોગી. ૨. અપૂર્ણોદર = પેટ ભરીને નહિ એવો; ઊણોદર. ૩. પ્રતિહત = હણાયેલ; નષ્ટ; રોકાયેલ; વિઘ્ન પામેલ. ૪. યોગ = આત્મસ્વભાવમાં જોડાણ ૫. અયથાલબ્ધ = જેવો મળે તેવો નહિ પણ પોતાની પસંદગીનો; સ્વેચ્છાલબ્ધ.
Page 423 of 513
PDF/HTML Page 454 of 544
single page version
एवंविधाहारसेवनव्यक्तान्तरशुद्धित्वान्न च युक्तस्य । अरसापेक्ष एवाहारो युक्ताहारः, तस्यैवान्तः- शुद्धिसुन्दरत्वात् । रसापेक्षस्तु अन्तरशुद्धया प्रसह्य हिंसायतनीक्रियमाणो न युक्तः, अन्तर- शुद्धिसेवकत्वेन न च युक्तस्य । अमधुमांस एवाहारो युक्ताहारः, तस्यैवाहिंसायतनत्वात् । समधुमांसस्तु हिंसायतनत्वान्न युक्तः, एवंविधाहारसेवनव्यक्तान्तरशुद्धित्वान्न च युक्तस्य । मधुमांसमत्र हिंसायतनोपलक्षणं, तेन समस्तहिंसायतनशून्य एवाहारो युक्ताहारः।।२२९।। विकल्पोपाधिरहिता या तु निश्चयनयेनाहिंसा, तत्साधकरूपा बहिरङ्गपरजीवप्राणव्यपरोपणनिवृत्तिरूपा द्रव्याहिंसा च, सा द्विविधापि तत्र युक्ताहारे संभवति । यस्तु तद्विपरीतः स युक्ताहारो न भवति । कस्मादिति चेत् । तद्विलक्षणभूताया द्रव्यभावरूपाया हिंसायाः सद्भावादिति ।।२२९।। अथ विशेषेण मांसदूषणं कथयति —
ભિક્ષાચરણથી આહાર તે જ યુક્તાહાર છે, કારણ કે તે જ આરંભશૂન્ય છે. (૧) અભિક્ષાચરણથી ( – ભિક્ષાચરણ સિવાયનો) જે આહાર તેમાં તો આરંભનો સંભવ હોવાને લીધે હિંસાયતનપણું પ્રસિદ્ધ હોવાથી તે આહાર યુક્ત ( – યોગ્ય) નથી; વળી (૨) એવા આહારના સેવનમાં (સેવનારની) અંતરંગ અશુદ્ધિ વ્યક્ત ( – પ્રગટ) હોવાથી તે આહાર યુક્તનો ( – યોગીનો) નથી.
દિવસે આહાર તે જ યુક્તાહાર છે, કારણ કે તે જ સમ્યક્ (બરાબર) જોઇ શકાય છે. (૧) અદિવસે (દિવસ સિવાયના વખતમાં) આહાર તો સમ્યક્ જોઈ શકાતો નથી તેથી તેને હિંસાયતનપણું અનિવાર્ય હોવાથી તે આહાર યુક્ત ( – યોગ્ય) નથી; વળી (૨) એવા આહારના સેવનમાં અંતરંગ અશુદ્ધિ વ્યક્ત હોવાથી તે આહાર યુક્તનો ( – યોગીનો ) નથી.
રસની અપેક્ષા વિનાનો આહાર તે જ યુક્તાહાર છે, કારણ કે તે જ અંતરંગ શુદ્ધિથી સુંદર છે. (૧) રસની અપેક્ષાવાળો આહાર તો અંતરંગ અશુદ્ધિ વડે અત્યંતપણે હિંસાયતન કરવામાં આવતો થકો યુક્ત ( – યોગ્ય) નથી; વળી (૨) તેનો સેવનાર અંતરંગ અશુદ્ધિ વડે સેવનારો હોવાથી તે આહાર યુક્તનો ( – યોગીનો) નથી.
મધ -માંસ રહિત આહાર તે જ યુક્તાહાર છે, કારણ કે તેને જ હિંસાયતનપણાનો અભાવ છે. (૧) મધ -માંસ સહિત આહાર તો હિંસાયતન હોવાથી યુક્ત ( – યોગ્ય) નથી; વળી (૨) એવા આહારના સેવનમાં અંતરંગ અશુદ્ધિ વ્યક્ત હોવાથી તે આહાર યુક્તનો ( – યોગીનો ) નથી. અહીં મધ -માંસ હિંસાયતનનું ઉપલક્ષણ છે તેથી (‘મધ -માંસ રહિત આહાર યુક્તાહાર છે’ એ કથન દ્વારા એમ સમજવું કે) સમસ્તહિંસાયતનશૂન્ય આહાર તે જ યુક્તાહાર છે. ૨૨૯.
Page 424 of 513
PDF/HTML Page 455 of 544
single page version
भणित इत्यध्याहारः । स कः । उववादो व्यवहारनयेनोत्पादः । किंविशिष्टः । संतत्तियं सान्ततिको निरन्तरः । केषां संबन्धी । णिगोदाणं निश्चयेन शुद्धबुद्धैकस्वभावानामनादिनिधनत्वेनोत्पादव्यय- रहितानामपि निगोदजीवानाम् । पुनरपि कथंभूतानाम्। तज्जादीणं तद्वर्णतद्गन्धतद्रसतत्स्पर्शत्वेन तज्जातीनां मांसजातीनाम् । कास्वधिकरणभूतासु । मंसपेसीसु मांसपेशीषु मांसखण्डेषु । कथंभूतासु । पक्केसु अ आमेसु अ विपच्चमाणासु पक्वासु चामासु च विपच्यमानास्विति प्रथमगाथा । जो पक्कमपक्कं वा यः कर्ता पक्वामपक्वां वा पेसीं पेशीं खण्डम् । कस्य । मंसस्स मांसस्य । खादि निजशुद्धात्मभावनोत्पन्न- सुखसुधाहारमलभमानः सन् खादति भक्षति, फासदि वा स्पर्शति वा, सो किल णिहणदि पिंडं स कर्ता किल लोकोक्त्या परमागमोक्त्या वा निहन्ति पिण्डम् । केषाम् । जीवाणं जीवानाम् । कति- संख्योपेतानाम् । अणेगकोडीणं अनेककोटीनामिति । अत्रेदमुक्तं भवति – शेषकन्दमूलाद्याहाराः केचनानन्त- काया अप्यग्निपक्वाः सन्तः प्रासुका भवन्ति, मांसं पुनरनन्तकायं भवति तथैव चाग्निपक्वमपक्वं पच्यमानं वा प्रासुकं न भवति । तेन कारणेनाभोज्यमभक्षणीयमिति ।।“३२ – ३३।। अथ पाणिगताहारः प्रासुकोऽप्यन्यस्मै न दातव्य इत्युपादिशति —
અન્વયાર્થઃ — [बालः वा] બાળ, [वृद्धः वा] વૃદ્ધ, [श्रमाभिहतः वा] ૨શ્રાંત [पुनः ग्लानः वा] કે ૩ગ્લાન શ્રમણ [मूलच्छेदः] મૂળનો છેદ [यथा न भवति] જે રીતે ન થાય તે રીતે [स्वयोग्यां] પોતાને યોગ્ય [चर्यां चरतु] આચરણ આચરો. ૧. સુસ્થિત = સારી સ્થિતિવાળું; આબાદ; દ્રઢ. ૨. શ્રાંત = શ્રમિત; થાકેલો. ૩. ગ્લાન = વ્યાધિગ્રસ્ત; રોગી; દુર્બળ.
Page 425 of 513
PDF/HTML Page 456 of 544
single page version
बालवृद्धश्रान्तग्लानेनापि संयमस्य शुद्धात्मतत्त्वसाधनत्वेन मूलभूतस्य छेदो न यथा स्यात्तथा संयतस्य स्वस्य योग्यमतिकर्कशमेवाचरणमाचरणीयमित्युत्सर्गः । बालवृद्धश्रान्तग्लानेन शरीरस्य शुद्धात्मतत्त्वसाधनभूतसंयमसाधनत्वेन मूलभूतस्य छेदो न यथा स्यात्तथा बालवृद्ध- श्रान्तग्लानस्य स्वस्य योग्यं मृद्वेवाचरणमाचरणीयमित्यपवादः । बालवृद्धश्रान्तग्लानेन संयमस्य शुद्धात्मतत्त्वसाधनत्वेन मूलभूतस्य छेदो न यथा स्यात्तथा संयतस्य स्वस्य योग्यमति- कर्कशमाचरणमाचरता शरीरस्य शुद्धात्मतत्त्वसाधनभूतसंयमसाधनत्वेन मूलभूतस्य छेदो न यथा स्यात् तथा बालवृद्धश्रान्तग्लानस्य स्वस्य योग्यं मृद्वप्याचरणमाचरणीयमित्यपवादसापेक्ष उत्सर्गः । बालवृद्धश्रान्तग्लानेन शरीरस्य शुद्धात्मतत्त्वसाधनभूतसंयमसाधनत्वेन मूलभूतस्य छेदो न यथा
अप्पडिकुट्ठं पिंडं पाणिगयं णेव देयमण्णस्स अप्रतिकृष्ट आगमाविरुद्ध आहारः पाणिगतो हस्तगतो नैव देयो, न दातव्योऽन्यस्मै, दत्ता भोत्तुमजोग्गं दत्वा पश्चाद्भोक्तुमयोग्यं, भुत्तो वा होदि पडिकुट्ठो कथंचित् भुक्तो वा, भोजनं कृतवान्, तर्हि प्रतिकृष्टो भवति, प्रायश्चित्तयोग्यो भवतीति । अयमत्र भावः — हस्तगताहारं योऽसावन्यस्मै न ददाति तस्य निर्मोहात्मतत्त्वभावनारूपं निर्मोहत्वं ज्ञायत इति ।।“३४।। अथ निश्चयव्यवहारसंज्ञयोरुत्सर्गापवादयोः कथंचित्परस्परसापेक्षभावं स्थापयन् चारित्रस्य रक्षां दर्शयति – चरदु चरतु, आचरतु । किम् । चरियं चारित्रमनुष्ठानम् । कथंभूतम् । सजोग्गं स्वयोग्यं, स्वकीयावस्थायोग्यम् । कथं यथा भवति । मूलच्छेदो जधा ण हवदि मूलच्छेदो यथा न भवति । स कः कर्ता चरति । बालो वा वुड्ढो वा समभिहदो वा पुणो गिलाणो वा बालो वा, वृद्धो वा, श्रमेणाभिहतः पीडितः श्रमाभिहतो वा, ग्लानो व्याधिस्थो वेति । तद्यथा — उत्सर्गापवादलक्षणं कथ्यते तावत् । स्वशुद्धात्मनः
ટીકાઃ — બાળ -વૃદ્ધ -શ્રાંત -ગ્લાને પણ (અર્થાત્ બાળ, વૃદ્ધ, શ્રમિત કે ગ્લાન શ્રમણે પણ) સંયમનો — કે જે (સંયમ) શુદ્ધાત્મતત્ત્વનું સાધન હોવાથી મૂળભૂત છે તેનો — છેદ જે રીતે ન થાય તે રીતે, સંયત એવા પોતાને યોગ્ય અતિ કર્કશ ( – કઠોર) આચરણ જ આચરવું, એ પ્રમાણે ઉત્સર્ગ છે.
બાળ -વૃદ્ધ -શ્રાંત -ગ્લાને (અર્થાત્ બાળ, વૃદ્ધ, શ્રમિત કે ગ્લાન શ્રમણે) શરીરનો — કે જે (શરીર) શુદ્ધાત્મતત્ત્વના સાધનભૂત સંયમનું સાધન હોવાથી મૂળભૂત છે તેનો — છેદ જે રીતે ન થાય તે રીતે, બાળ -વૃદ્ધ -શ્રાંત -ગ્લાન એવા પોતાને યોગ્ય (અર્થાત્ બાળ, વૃદ્ધ, શ્રમિત કે ગ્લાન એવો જે પોતે તેને યોગ્ય ) મૃદુ (-કોમળ) આચરણ જ આચરવું, એ પ્રમાણે અપવાદ છે.
બાળ -વૃદ્ધ -શ્રાંત -ગ્લાને સંયમનો — કે જે શુદ્ધાત્મતત્ત્વનું સાધન હોવાથી મૂળભૂત છે તેનો — છેદ જે રીતે ન થાય તે રીતે સંયત એવા પોતાને યોગ્ય અતિ કર્કશ આચરણ આચરતાં, (તેણે) શરીરનો — કે જે શુદ્ધાત્મતત્ત્વના સાધનભૂત સંયમનું સાધન હોવાથી મૂળભૂત છે તેનો (પણ) — છેદ જે રીતે ન થાય તે રીતે બાળ -વૃદ્ધ -શ્રાંત -ગ્લાન એવા પોતાને યોગ્ય મૃદુ આચરણ પણ આચરવું, એ પ્રમાણે ૧અપવાદસાપેક્ષ ઉત્સર્ગ છે. ૧. અપવાદસાપેક્ષ = અપવાદની અપેક્ષા સહિત પ્ર. ૫૪
Page 426 of 513
PDF/HTML Page 457 of 544
single page version
स्यात्तथा बालवृद्धश्रान्तग्लानस्य स्वस्य योग्यं मृद्वाचरणमाचरता संयमस्य शुद्धात्मतत्त्वसाधनत्वेन मूलभूतस्य छेदो न यथा स्यात्तथा संयतस्य स्वस्य योग्यमतिकर्कशमप्याचरणमाचरणीय- मित्युत्सर्गसापेक्षोऽपवादः । अतः सर्वथोत्सर्गापवादमैत्र्या सौस्थित्यमाचरणस्य विधेयम् ।।२३०।।
सकाशादन्यद्बाह्याभ्यन्तरपरिग्रहरूपं सर्वं त्याज्यमित्युत्सर्गो निश्चयनयः सर्वपरित्यागः परमोपेक्षासंयमो वीतरागचारित्रं शुद्धोपयोग इति यावदेकार्थः । तत्रासमर्थः पुरुषः शुद्धात्मभावनासहकारिभूतं किमपि प्रासुकाहारज्ञानोपकरणादिकं गृह्णातीत्यपवादो व्यवहारनय एकदेशपरित्यागः तथाचापहृतसंयमः सरागचारित्रं शुभोपयोग इति यावदेकार्थः । तत्र शुद्धात्मभावनानिमित्तं सर्वत्यागलक्षणोत्सर्गे दुर्धरानुष्ठाने प्रवर्तमानस्तपोधनः शुद्धात्मतत्त्वसाधकत्वेन मूलभूतसंयमस्य संयमसाधकत्वेन मूलभूतशरीरस्य वा यथा छेदो विनाशो न भवति तथा किमपि प्रासुकाहारादिकं गृह्णातीत्यपवादसापेक्ष उत्सर्गो भण्यते । यदा पुनरपवादलक्षणेऽपहृतसंयमे प्रवर्तते तदापि शुद्धात्मतत्त्वसाधकत्वेन मूलभूतसंयमस्य संयमसाधकत्वेन मूलभूतशरीरस्य वा यथोच्छेदो विनाशो न भवति तथोत्सर्गसापेक्षत्वेन प्रवर्तते । तथाप्रवर्तते इति कोऽर्थः । यथा संयमविराधना न भवति तथेत्युत्सर्गसापेक्षोऽपवाद इत्यभिप्रायः ।।२३०।। अथापवादनिरपेक्षमुत्सर्गं तथैवोत्सर्गनिरपेक्षमपवादं च
બાળ -વૃદ્ધ -શ્રાંત -ગ્લાને શરીરનો — કે જે શુદ્ધાત્મતત્ત્વના સાધનભૂત સંયમનું સાધન હોવાથી મૂળભૂત છે તેનો — છેદ જે રીતે ન થાય તે રીતે બાળ -વૃદ્ધ -શ્રાંત -ગ્લાન એવા પોતાને યોગ્ય મૃદુ આચરણ આચરતાં, (તેણે) સંયમનો — કે જે શુદ્ધાત્મતત્ત્વનું સાધન હોવાથી મૂળભૂત છે તેનો (પણ) — છેદ જે રીતે ન થાય તે રીતે સંયત એવા પોતાને યોગ્ય અતિ કર્કશ આચરણ પણ આચરવું, એ પ્રમાણે ઉત્સર્ગસાપેક્ષ અપવાદ છે.
આથી (એમ કહ્યું કે) સર્વથા (સર્વ પ્રકારે) ઉત્સર્ગ ને અપવાદની મૈત્રી વડે આચરણનું સુસ્થિતપણું કરવું. ૨૩૦.
હવે ઉત્સર્ગ અને અપવાદના વિરોધ ( – અમૈત્રી) વડે આચરણનું ૧દુઃસ્થિતપણું થાય છે એમ ઉપદેશે છેઃ —
Page 427 of 513
PDF/HTML Page 458 of 544
single page version
अत्र क्षमाग्लानत्वहेतुरूपवासः, बालवृद्धत्वाधिष्ठानं शरीरमुपधिः, ततो बालवृद्ध- श्रान्तग्लाना एव त्वाकृष्यन्ते । अथ देशकालज्ञस्यापि बालवृद्धश्रान्तग्लानत्वानुरोधेनाहार- विहारयोः प्रवर्तमानस्य मृद्वाचरणप्रवृत्तत्वादल्पो लेपो भवत्येव, तद्वरमुत्सर्गः । देशकालज्ञस्यापि बालवृद्धश्रान्तग्लानत्वानुरोधेनाहारविहारयोः प्रवर्तमानस्य मृद्वाचरणप्रवृत्तत्वादल्प एव लेपो भवति, तद्वरमपवादः । देशकालज्ञस्यापि बालवृद्धश्रान्तग्लानत्वानुरोधेनाहारविहारयोरल्पलेप- निषेधयंश्चारित्ररक्षणाय व्यतिरेकद्वारेण तमेवार्थं द्रढयति – वट्टदि वर्तते प्रवर्तते । स कः कर्ता । समणो शत्रुमित्रादिसमचित्तः श्रमणः । यदि किम् । जदि अप्पलेवी सो यदि चेदल्पलेपी स्तोकसावद्यो भवति । कयोर्विषययोर्वर्तते । आहारे व विहारे तपोधनयोग्याहारविहारयोः । किं कृत्वा पूर्वं । जाणित्ता ज्ञात्वा । कान् । ते तान् कर्मतापन्नान्; देसं कालं समं खमं उवधिं देशं, कालं, मार्गादिश्रमं, क्षमां क्षमतामुपवासादिविषये शक्तिं , उपधिं बालवृद्धश्रान्तग्लानसंबन्धिनं शरीरमात्रोपधिं परिग्रहमिति पञ्च देशादीन् तपोधनाचरणसहकारिभूतानिति । तथाहि — पूर्वकथितक्रमेण तावद्दुर्धरानुष्ठानरूपोत्सर्गे वर्तते; तत्र च प्रासुकाहारादिग्रहणनिमित्तमल्पलेपं द्रष्टवा यदि न प्रवर्तते तदा आर्तध्यानसंक्लेशेन शरीरत्यागं
અન્વયાર્થઃ — [यदि] જો [श्रमणः] શ્રમણ [आहारे वा विहारे] આહાર અથવા વિહારમાં [देशं] દેશ, [कालं] કાળ, [श्रमं] શ્રમ, [क्षमां] ૧ક્ષમતા તથા [उपधिं] ઉપધિને [तान् ज्ञात्वा] જાણીને [वर्तते] પ્રવર્તે [सः अल्पलेपी] તો તે અલ્પલેપી હોય છે.
ટીકાઃ — ક્ષમતા તથા ગ્લાનતાનો હેતુ ઉપવાસ છે અને બાળપણા તથા વૃદ્ધપણાનું અધિષ્ઠાન ઉપધિ – શરીર છે, તેથી અહીં (ટીકામાં) બાળ -વૃદ્ધ -શ્રાંત -ગ્લાન જ ખેંચવામાં આવે છે (અર્થાત્ મૂળ ગાથામાં જે ક્ષમા, ઉપધિ વગેરે શબ્દો છે તેનો આશય ખેંચીને ટીકામાં ‘બાળ, વૃદ્ધ, શ્રાંત, ગ્લાન’ એ શબ્દો જ વાપરવામાં આવે છે).
૨દેશકાલજ્ઞને પણ, જો તે બાળ -વૃદ્ધ -શ્રાંત -ગ્લાનત્વના અનુરોધ વડે (અર્થાત્ બાલત્વ, વૃદ્ધત્વ, શ્રાંતત્વ અથવા ગ્લાનત્વને અનુસરીને) આહારવિહારમાં પ્રવર્તે તો મૃદુ આચરણમાં પ્રવર્તવાથી અલ્પ લેપ થાય છે જ (-લેપનો તદ્દન અભાવ થતો નથી), તેથી ઉત્સર્ગ સારો છે.
દેશકાલજ્ઞને પણ, જો તે બાળ -વૃદ્ધ -શ્રાંત -ગ્લાનત્વના અનુરોધ વડે આહારવિહારમાં પ્રવર્તે તો મૃદુ આચરણમાં પ્રવર્તવાથી અલ્પ જ લેપ થાય છે ( – વિશેષ લેપ થતો નથી), તેથી અપવાદ સારો છે. ૧. ક્ષમતા = શક્તિ; સહનશક્તિ; ધીરજ. ૨. દેશકાલજ્ઞ = દેશ -કાળને જાણનાર; દેશકાળનો જાણ.
Page 428 of 513
PDF/HTML Page 459 of 544
single page version
भयेनाप्रवर्तमानस्यातिकर्कशाचरणीभूयाक्रमेण शरीरं पातयित्वा सुरलोकं प्राप्योद्वान्तसमस्त- संयमामृतभारस्य तपसोऽनवकाशतयाशक्यप्रतिकारो महान् लेपो भवति, तन्न श्रेयानपवाद- निरपेक्ष उत्सर्गः । देशकालज्ञस्यापि बालवृद्धश्रान्तग्लानत्वानुरोधेनाहारविहारयोरल्पलेपत्वं विगणय्य यथेष्टं प्रवर्तमानस्य मृद्वाचरणीभूय संयमं विराध्यासंयतजनसमानीभूतस्य तदात्वे तपसोऽनवकाशतयाशक्यप्रतिकारो महान् लेपो भवति, तन्न श्रेयानुत्सर्गनिरपेक्षोऽपवादः । अतः सर्वथोत्सर्गापवादविरोधदौस्थित्यमाचरणस्य प्रतिषेध्यं, तदर्थमेव सर्वथानुगम्यश्च परस्पर- सापेक्षोत्सर्गापवादविजृम्भितवृत्तिः स्याद्वादः ।।२३१।। कृत्वा पूर्वकृतपुण्येन देवलोके समुत्पद्यते । तत्र संयमाभावान्महान् लेपो भवति । ततः कारणादपवाद- निरपेक्षमुत्सर्गं त्यजति, शुद्धात्मभावनासाधकमल्पलेपं बहुलाभमपवादसापेक्षमुत्सर्गं स्वीकरोति । तथैव च पूर्वसूत्रोक्तक्रमेणापहृतसंयमशब्दवाच्येऽपवादे प्रवर्तते तत्र च प्रवर्तमानः सन् यदि कथंचिदौषध- पथ्यादिसावद्यभयेन व्याधिव्यथादिप्रतीकारमकृत्वा शुद्धात्मभावनां न करोति तर्हि महान् लेपो भवति; अथवा प्रतीकारे प्रवर्तमानोऽपि हरीतकीव्याजेन गुडभक्षणवदिन्द्रियसुखलाम्पटयेन संयमविराधनां करोति तदापि महान् लेपो भवति । ततः कारणादुत्सर्गनिरपेक्षमपवादं त्यक्त्वा शुद्धात्मभावनारूपं शुभोपयोगरूपं वा संयममविराधयन्नौषधपथ्यादिनिमित्तोत्पन्नाल्पसावद्यमपि बहुगुणराशिमुत्सर्गसापेक्षम-
દેશકાલજ્ઞને પણ, જો તે બાળ -વૃદ્ધ -શ્રાંત -ગ્લાનત્વના અનુરોધ વડે જે આહારવિહાર તેનાથી થતા અલ્પ લેપના ભયને લીધે તેમાં ન પ્રવર્તે તો (અર્થાત્ અપવાદના આશ્રયે થતા અલ્પ બંધના ભયને લીધે ઉત્સર્ગની હઠ કરી અપવાદમાં ન પ્રવર્તે તો), અતિ કર્કશ આચરણરૂપ થઇને અક્રમે શરીર પાડી નાખીને દેવલોકને પામીને જેણે સમસ્ત સંયમામૃતનો સમૂહ વમી નાખ્યો છે એવા તેને તપનો અવકાશ નહિ રહેવાથી, જેનો પ્રતિકાર અશક્ય છે એવો મહાન લેપ થાય છે, તેથી અપવાદનિરપેક્ષ ઉત્સર્ગ શ્રેય નથી.
દેશકાલજ્ઞને પણ, જો તે બાળ -વૃદ્ધ -શ્રાંત -ગ્લાનત્વના અનુરોધ વડે જે આહારવિહાર તેનાથી થતા અલ્પ લેપને નહિ ગણીને તેમાં ૧યથેષ્ટ પ્રવર્તે તો (અર્થાત્ અપવાદથી થતા અલ્પ બંધ પ્રત્યે બેદરકાર થઇને ઉત્સર્ગરૂપ ધ્યેયને ચૂકીને અપવાદમાં સ્વચ્છંદે પ્રવર્તે તો), મૃદુ આચરણરૂપ થઇને સંયમ વિરાધીને અસંયત જન સમાન થયેલા એવા તેને તે કાળે તપનો અવકાશ નહિ રહેવાથી, જેનો પ્રતિકાર અશક્ય છે એવો મહાન લેપ થાય છે, તેથી ઉત્સર્ગનિરપેક્ષ અપવાદ શ્રેય નથી.
આથી (એમ કહ્યું કે) ઉત્સર્ગ અને અપવાદના વિરોધ વડે થતું જે આચરણનું દુઃસ્થિતપણું તે સર્વથા નિષેધ્ય (ત્યાજ્ય) છે અને, તે અર્થે જ, પરસ્પર સાપેક્ષ એવા ઉત્સર્ગ અને અપવાદ વડે જેની વૃત્તિ ( – હયાતી, કાર્ય) પ્રગટ થાય છે એવો સ્યાદ્વાદ સર્વથા અનુગમ્ય (અનુસરવાયોગ્ય ) છે. ૧. યથેષ્ટ = ઇચ્છા પ્રમાણે; મરજી પ્રમાણે.
Page 429 of 513
PDF/HTML Page 460 of 544
single page version
श्चित्सामान्यविशेषभासिनि निजद्रव्ये करोतु स्थितिम् ।।१५।।
ભાવાર્થઃ — જ્યાં સુધી શુદ્ધોપયોગમાં જ લીન ન થઇ જવાય ત્યાં સુધી શ્રમણે આચરણની સુસ્થિતિ અર્થે ઉત્સર્ગ ને અપવાદની મૈત્રી સાધવી જોઈએ. તેણે પોતાની નિર્બળતાનો ખ્યાલ રાખ્યા વિના એકલા ઉત્સર્ગનો આગ્રહ રાખીને કેવળ અતિ કર્કશ આચરણની હઠ ન કરવી જોઈએ, તેમ જ ઉત્સર્ગરૂપ ધ્યેયને ચૂકીને એકલા અપવાદના આશ્રયે કેવળ મૃદુ આચરણરૂપ શિથિલતા પણ ન સેવવી જોઈએ. હઠ પણ ન થાય અને શિથિલતા પણ ન સેવાય એમ વર્તવું જોઈએ. સર્વજ્ઞ ભગવાનનો માર્ગ અનેકાન્ત છે. પોતાની દશા તપાસીને જે રીતે એકંદરે લાભ થાય તે રીતે વર્તવાનો ભગવાનનો ઉપદેશ છે. પોતાની ગમે તે (સબળ કે નિર્બળ) સ્થિતિ હોય તોપણ એક જ પ્રકારે વર્તવું એવો જિનમાર્ગ નથી. ૨૩૧.
(હવે શ્લોક દ્વારા આત્મદ્રવ્યમાં સ્થિર થવાનું કહીને ‘આચરણપ્રજ્ઞાપન’ પૂર્ણ કરવામાં આવે છેઃ)
(અર્થઃ — ) એ પ્રમાણે વિશિષ્ટ +આદરવાળા પુરાણ પુરુષોએ સેવેલું, ઉત્સર્ગ અને અપવાદ દ્વારા ઘણી પૃથક્ પૃથક્ ભૂમિકાઓમાં વ્યાપતું જે ચરણ ( – ચારિત્ર) તેને યતિ પ્રાપ્ત કરીને, ક્રમશઃ અતુલ નિવૃત્તિ કરીને, ચૈતન્યસામાન્ય અને ચૈતન્યવિશેષરૂપ જેનો પ્રકાશ છે એવા નિજદ્રવ્યમાં સર્વતઃ સ્થિતિ કરો.
આ રીતે આચરણપ્રજ્ઞાપન સમાપ્ત થયું. *શાર્દૂલવિક્રીડિત છંદ +આદર = કાળજી; સાવધાની; પ્રયત્ન; બહુમાન.